________________
पञ्चाशोऽध्यायः ।
। २०३ गम्भीरडक्सुघोणो रक्तास्यो भिन्ननखशिरोजः स्यात् । उद्बद्धतनुः शक्तोऽष्टमजो घटपृथुललाटश्च ॥ ९० ॥ विपुलाक्षिहृत्सुमेधाः पूर्णमुखो गीतवाद्यनिरतश्च । माधुर्यसत्वयुक्तः साधुर्नवमे भवेत्सुजनः ॥ ९१ ॥
॥ इति मकरे ॥ श्यामो मृदुः कृशाङ्गः पीनहनुः शास्त्रकाव्यमतिः । कामी रतिमान्कान्तः कुम्भस्याद्यांशके भवेज्जातः ॥ ९२ ॥ त्वङ्नखदृष्टिशिरोजैः खरैश्च सुविपन्नवत्सलः साधुः । दीर्घो विशिरा मूल् द्वितीयभागे भवेजातः ॥ ९३ ॥ संसक्ततनुः प्रमदाप्रियश्च वैडूर्यकान्तिधरः। शास्त्रार्थवित्प्रयोक्ता तृतीयनवभागसंजातः ॥ ९४ ॥ कान्तानुरतो गौरो विदारितास्यो रिपुप्रणाशकरः । गम्भीरधीरसत्वश्चतुर्थजो भोगरतियुक्तः ॥ ९५ ॥ स्पष्टार्थविकलाज्ञः खररोमधरात्रिरुग्रः स्यात् । संरुद्धगण्डकर्णः पञ्चमजः कृष्णवर्णश्च ॥ ९६ ॥ व्याघ्राननः प्रगल्भः कुञ्चितकेशः सुनिश्चितार्थश्च । व्यालमृगोरगहन्ता षष्ठंऽशे वल्लभो नृपतेः ॥ ९७॥ मेषाक्षिमुखस्तीक्ष्णो ग्राम्यरतिः स्त्रीषु परिभूतः । पित्तरुगर्दितदेहः सप्तमजः सत्वधृतियुक्तः ॥ ९८ ॥ स्थिरसत्वबुद्धिरतिमान्नरेन्द्रयोधो नरेश्वरः सुभगः । स्थूलरदो विपुलाक्षः कुम्भे स्यादष्टमेंऽशके पुरुषः ॥ ९९ ॥ श्यामः समग्रवंदनाविशेषितः सुधनदारपुत्रश्च । नवमांशजः सुवाक्यः प्रथितः शक्तो भवेत्पुरुषः॥१०० ॥
॥ इति कुम्भे ॥ गौरोऽपि रक्तदेहः प्रभामृदुस्त्रीमतिप्रचलचित्तः । हखगलः कृशमध्यो मीनस्याद्यांशके पुरुषः ॥ १०१॥
पृथुपीनभुग्ननासः क्रियापटुर्मीसभुग्रुचिरदेहः । १ दशनो. २ पृथुपीनमुग्रनासः.
Aho! Shrutgyanam