________________
२०२
सारावली। दक्षो मधुमण्डलदृक्गौरः कृच्छ्रप्रवृद्धकुक्षिः स्यात् । प्राज्ञोऽटनः सुकेशः पृथुशुभमूर्तिश्चतुर्थे स्यात् ॥ ७७॥ पृथुकण्ठनेत्रवदनः प्रवृद्धहरिविग्रहो महाभूः स्यात् । पीनोन्नतांसहन्ता पञ्चमजो रूढरोमदृढबुद्धिः ॥ ७८॥ स्निग्धासितान्तपृथुदृक् महाललाटः सुवृत्तिकाव्यरतः । पृथुपीनमुखो हीनः षष्ठे विद्वान्कथाभिरतः ॥ ७९ ॥ श्यामो मृदुर्वचस्वी तुङ्गशिराः सङ्ग्रहानुसन्धिरतः । दी? विशालनयनो दाक्षिण्यपटुश्च सप्तमजः ॥ ८० ॥ चिपिटाग्रनासिकः स्याद्विस्तीर्णशिराः सुबद्धवैरश्व।। विभ्रान्तदृक्प्रलापी गुरुष्वभिमतोऽष्टमांशभवः ॥ ८१ ॥ गौरो हयाकृतिमुखो दीर्घासितदृक् तथाल्पवाक्यः स्यात् । सत्यः सतां विषादी नवमे कुटिलोरुजङ्घश्च ॥ ८२ ॥
॥ इति धनुषि ॥ विरलाग्ररदः श्यामः प्रभिन्नवाक् खरशिरोरुनखजानुः । गीताध्वहास्यनिरतो मकराये बलधनः कृशाङ्गः स्यात् ८३ अलसशटः कुटिलनसो गीताभिरतिर्विशालदेहश्व । प्रचुराङ्गनासु निरतो बहुभाषी स्याद्वितीयजः कल्प्यः॥ ८४॥ गान्धर्वकलाकामः ख्याताङ्गो गौरक्सुमनसः । बहुमित्रवन्धुरतिमांस्तृतीयजः स्विष्टकर्मा च ॥ ८५॥ रक्तासितवृत्ताक्षो महाललाटभुजदुर्बलाङ्गकरः । भवति हि विकीर्णकेशश्चतुर्थजो विरलदन्तवाक्यः स्यात् ८६ उद्दण्डघोणकुक्षिर्भवति हि भोक्ता सुनासिकावंशः । श्यामो वृत्तोरुभुजः पञ्चमभागे स्थिरारम्भः ॥ ८७॥ स्निग्धच्छविः सुवेषः कामरतः सूक्ष्मसमरदसुवक्ता । षष्ठांशजः पृथुहनुमहाललाटः पुमान्भवति ॥ ८८॥ श्यामोऽलसः सुभाषी रूक्षितदेहो बृहत्तनुः कठिनः । मृदुपादपाणिमतिमान्सप्तमजः शीलसम्पन्नः ॥ ८९॥
१ भाषी. २ कुञ्चित.
Aho! Shrutgyanam