________________
पञ्चाशोऽध्यायः ।
स्वक्षः प्रसन्नगौरः समचारुतनुः पटुः कलाभिरतः । दाक्षिण्यहास्यनिरतो विटस्वभावो भवेन्नवमे ॥ ६४ ॥
२०१
॥ इति तुलायाम् ॥
हस्वोन्नतोष्ठघोणः सुललाटः स्याद्दृढाङ्गगौरश्च । दर्दुरकुक्षिर्घटकोऽष्टमराशौ प्रथमनवभागे ॥ ६५ ॥ गौरः पृथ्वायतहृद्वाहुस्ताम्रो द्वितीये स्यात् । उद्वृत्तबलनिहन्ता साहसकृदनल्पकेशश्च ॥ ६६ ॥ प्राज्ञो ढांसबाहुः प्रयत्नकोशो विशुद्धवाक्यः स्यात् । कानीनको वपुष्मान्गौरो रुचिराधरस्तृतीयेंऽशे ॥ ६७ ॥ परदारद्रोहरतिः क्षेप्ता धीर चतुर्थजो दीर्घः । श्यामोऽसि केशाक्षो नटप्रगल्भश्च पीनरोमांसः ॥ ६८ ॥ गम्भीरस्ताम्राक्षो मग्ननसः पञ्चमे धीरः । मृष्टोदरोग्रकर्मा व्यस्तदृढाङ्गो यशस्वी स्यात् ॥ ६९ ॥ धृष्टो वरिष्ठबुद्धिः पृष्ठोचनसो गभीरसत्वः स्यात् । सुनसः प्रचण्डकर्मा षष्ठे दक्षोऽल्पकचघनभ्रूश्च ॥ ७० ॥ दारितमुखः स्थिराङ्गः प्रविकीर्णरदः शिरावनद्धाङ्गः । निम्नोदरः ताक्षः स्रस्ततनुः सप्तमे भवेदंशे ॥ ७१ ॥ स्फुटितायनसः कालो विपन्नशीलो मलीमसाङ्गः स्यात् । भिन्नोत्कटैः शिरोजैः सन्त्यक्तमतिस्तथाष्टमजः ॥ ७२ ॥ गौरो मृगाकृतिमृदुः प्रशान्तपिङ्गाक्षरोमदृढपीनः । सुसमेतश्च गुरूणां मतः प्रजातो नवमभागे ॥ ७३ ॥ ॥ इति वृश्चिके ॥
सुबृहन्नसोजदृष्टिः स्फुटाग्रभाषी सुदन्तरोमा च । गौरः सुबद्धवृषणश्चापाद्यांशे प्रचण्डः स्यात् ॥ ७४ ॥ प्रोतुङ्गशिराः स्थिरविद्विस्तीर्णाक्षो गुरुस्फिगूरुश्च । विकृताक्षनसो दीर्घो महाहनुः स्याद्वितीयेंऽशे ॥ ७५ ॥ शिक्षाशास्त्रमतिज्ञः प्रगल्भगम्भीरमूर्तिसुनयश्च । स्त्रीवल्लभो मनस्वी तृतीयजो हास्यशिल्पज्ञः ॥ ७६
Aho! Shrutgyanam