________________
सारावली। स्थूलोष्ठबाहुरुन्नततनुः पृथुशिरोरुहांसः स्यात् । पञ्चमजः पृथुवक्षा पराश्रयोद्धजङ्घश्च ॥५१॥ स्निग्धच्छविः सुवाक्यः शस्ततनुः शास्त्रकृतमतिप्रचुरः । लिपिलेख्यकलाभिज्ञः सुमनाः षष्ठांशजो विहारी च ॥५२॥ हस्ववदनोन्नतांसः स्निग्धभुजोऽन्ते च केशगौरः स्यात् । सप्तमजः पृथुजठरः पृथुतरचरणोऽम्बुभीरुश्च ॥ ५३॥ सुकुमारगौरदीर्घश्चित्रोन्नतदृक्प्रचण्डमानी स्यात् । व्यालम्बपीनबाहुः पिङ्गलरोमाष्टमे जातः ॥ ५४ ॥ ख्यातो मृदुसुखमूर्तिर्विशालनेत्रो बलासदृशसत्वः । चतुरो नवमेंऽशे स्यान्नतांसलेख्यादिविद्वांश्च ॥ ५५ ॥
॥ इति कन्यायाम् ॥ गौरो विशालनेत्रः श्लाघी दीर्घाननोऽर्थगोप्ता स्यात् । नवपण्यकर्मकुशलस्तुलाधरायंशजः सुविख्यातः ॥ ५६ ॥ प्लुतमण्डलनेत्रः स्यात्करालदन्तो निमग्नमध्यस्तु । युगले विस्मृतहृदयः कुतनुघनसंहतभ्रूश्च ॥ ५७॥ गौरोऽश्वमुखः सुरदो महोन्नताक्षः कृशोऽपि लब्धयशाः । दीर्घकरोरुहघोणस्तृतीयजः स्यात्सुचरणश्च ॥ ५८ ॥ तन्वंसबाहुभीरुस्तून्नतदन्तः कृशो मृगतरलदृक् । हवनसः सुविषादी श्यामो शीलश्चतुर्थजो भवति ॥ ५९॥ गम्भीरदृक्स्थिरात्मा सुहृत्प्रियः पञ्चमे ह्यमानी स्यात् । खरकेशः समनेत्रो मध्यप्रतिलग्नघोणदृप्तश्च ॥ ६० ॥ पीनाङ्गो गौरः स्याद्विशालनेत्रः सुनासिकावंशः । स्निग्धनखः सुनयज्ञः षष्ठंऽशे शास्त्रविजातः ॥ ६१ ॥ रक्तावदातम॑तिमान्गुरुहस्वतनुः कृशो ललाटे स्यात् । लुब्धः प्रचण्डदुर्गः सप्तमभागे मनस्वी च ॥ ६२ ॥ तुङ्गांसगण्डभोक्ता कठिनतनुर्दीर्घकृष्णभ्रूः । निर्णिक्तवाक्प्रशान्तः सद्वक्षस्त्वर्धमस्तकोऽप्टमजः ॥ ६३ ॥
१ रति.
Aho ! Shrutgyanam