________________
पञ्चाशोऽध्यायः ।
मन्दोदरः प्रचण्डो रक्ताग्रनसो वृहच्छिरः शूरः । उन्नतमांसलवक्षाः सिंहे प्रथमे भवेद्भागे ॥ ३८ ॥ उन्नतविततललाटश्चतुरस्रतनुर्विलोमनेत्रश्च । दीर्घभुजोन्नतवक्षाः पृथू घोणो द्वितीयेंऽशे ॥ ३९ ॥ रोमान्वितायतभुजश्चकोरनयनस्तलस्त्यागी । उन्नासिकस्तृतीये स्निग्धतनुर्बाहुवृत्तगलः ॥ ४० ॥ घृतमण्ड गौरगात्रो दीर्घा सितलोचनो मृदुशिरोजः । भिन्नध्वनिश्चतुर्थे पृथुकरचरणश्च भेककुक्षिः स्यात् ॥ ४१ ॥ घण्टा शिरोऽल्पकेशो सितघोणाक्षश्च लोमशाङ्गतनुः । लम्बोदरप्रचण्डो दंष्ट्रोत्कटपीनहृन्मध्ये ॥ ४२ ॥ स्रस्ताल्परोममूर्तिः स्निग्धसमासितविलोचनो दीर्घः । श्यामः स्त्रीणां चतुरो विकत्थनो वाक्यपण्डितः षष्ठे ॥ ४३ ॥ दीर्घाननः सिरालः पीनतनुः स्त्रीषु दुर्भगः कृष्णः । स्यात्सप्तमे सुचण्डो रोमचितः कूटनिष्ठुराभाषी ॥ ४४ ॥ उत्कृष्टवा स्थिराङ्गः सुभगो गम्भीरदृग्विकर्मा च । निःखः कूटकरः स्यादष्टमभागे प्रसूतश्च ॥ ४५ ॥ रासभमुखोऽसिताक्षो व्यालम्बभुजः सुपाणिजङ्घच । श्वासनिपीडितवक्षा नवमांशे जायते मनुजः ॥ ४६ ॥ ॥ इति सिंहे ॥
१९९
सारङ्गाक्षो वक्ता प्रदानसम्भोगवान्धनाढ्यश्च । श्यामोन्नतहृदयः स्यात्पष्ठे प्रथमांशके जातः ॥ ४७ ॥ पूर्णाननः संचक्षुः स्प्रिंग्धो मृदुवादशीलश्च । लम्बोदरश्चलः स्याद्वितीयभागे महोरुश्च ॥ ४८ ॥ स्फुटनासिकास्फुटः स्यात्प्रशस्तपादश्च पीनपदभुजः । विस्पष्टवाक्च गौरः कन्यासु सुहृत्तृतीयेंशे ॥ ४९ ॥ श्रुतवान्स्त्रीषु च रमते सुकुमारो मधुररक्तगौरश्च । तीक्ष्णचतुर्थभागे प्रबोधनोधः कृशो द्विमूर्धा च ॥ ५० ॥
१ सुभ्रूर्ग. २ वक्षा. ३ पिशुनः कलहप्रियः सुगूढवयाः ४ पाणि.
Aho! Shrutgyanam