________________
सारावली ।
ताम्रारुणाक्षवर्णः समुन्नताक्षो विशालवक्षाः स्यात् । शिक्षासु शिल्पनिपुणो हास्यरतिः सप्तमे जातः ॥ २६ ॥ श्यामो गुरुर्मनस्वी ललितो मधुराभिधानश्च । व्यस्तविवृद्धशरीरो दीर्घासितदृक्कलाविदष्टमजः ॥ २७ ॥ वृत्ता सितहक्सुतनुः सिद्धो मेधाबलो रतिज्ञः स्यात् । विज्ञानकाव्यनिरतो नवमे जायेत मिथुनस्य ॥ २८ ॥
॥ इति मिथुने ॥ निर्मलचारुसुगौरः सुमूर्धजः स्याद्विशालकुक्षिश्च । मङ्गलमुखोन्नताक्षस्तन्वङ्गभुजः कुलीराद्ये ॥ २९ ॥ रक्तच्छविचरणोढः कलाप्रियः स्याद्विडालमुखनेत्रः । कर्किद्वितीयभागे त्यागी कृशजानुजङ्घश्च ॥ ३०॥ गौरः सुनेत्रवाग्मी सुकुमारस्थूलयोषिदङ्गश्च । धीमान्मृदुकर्मरतस्तृतीयभागे भवेदलसः ॥ ३१ ॥ श्यामच्छविनंतभूर्विलासपीनोन्नतः सुनासाक्षः । क्षीणः पुरुषो दाता सुजातिकार्यश्चतुर्थे स्यात् ॥ ३२ ॥ घण्टाशिरोनतास्यः सुसंहतभूः सुदीर्घबाहुः स्यात् । सेवारतो विकर्मा मध्ये दुर्मर्षणोऽल्पमेधाश्च ॥ ३३॥ दीर्घविशालशरीरः प्रशस्तनयनो बहुप्रतापः स्यात् । गौरः सुवंशघोणो वक्ता षष्ठे च पृथुदन्तः ॥ ३४ ॥ भिन्नशिरोरुहरोमा बृहत्तनुः स्यात्सिरालजङ्गश्च । परगृहरक्षणशीलः काकाकारश्च सप्तमजः ॥ ३५ ॥ घण्टाशिराः कुशिल्पी सुमुखभुजाङ्गश्च कूर्मगतिः । मध्यविलग्ननसः स्यादष्टमभागे तु कुष्ठश्च ॥ ३६॥ गौरो झपनेत्रगुरुम॒दूदरोऽथ पृथुपीनवक्षाः स्यात् । दीर्घहनुर्लम्बोष्ठो महोरुकृशजानुगुल्फोऽन्ये ॥ ३७॥
॥ इति कर्कटके ॥
१ छवीरणोग्रः. २ कृष्णश्व.
Aho ! Shrutgyanam