________________
पश्चाशोऽध्यायः।
मृद्वङ्गवान्वपुष्मान्सुनसस्पष्टायताक्षबृहदङ्गः। यज्ञादिकर्मनिरतः स्थिरपाणिकरस्तृतीयनवमांशे ॥१३॥ ह्रस्वोदरः सुरोषो मेषाक्षः पिङ्गलस्त्वधनयुक्तः । परधनहरणाभिरतश्चतुर्थभागे वृषस्य नरः ॥ १४ ॥ व्यालः सुतुङ्गघोणो महर्षभाकारवक्रघनकेशः । स्यात्पञ्चमे विलासी बृहद्भुजस्कन्धकटिगौरः ॥१५॥ स्वक्षः स्थिरः सुकेशः स्निग्धतनुर्वल्गुवाक्प्रगल्भः स्यात् । माधुर्यहास्यनिरतः कृशः सुनिपुणो भवेत्षष्ठे ॥ १६ ॥ मृतसुतयुवतीषु रतो मनाक्प्रलम्बाग्रनासिकाक्षः स्यात् । उद्बद्धाङ्गः स्वजनद्वेषी गुरुपादसूक्ष्मकेशश्च ॥ १७॥ व्याप्रेक्षणः सुदशनस्त्वजितस्फुटनासिकोऽल्पकर्मा स्यात् । उद्धृत्तनीलकेशोग्रनखो मुखरस्तथाष्टमजः ॥ १८॥ मान्योऽल्पसत्वभीरुः क्रोधी समरुचिरमूर्तिकितवः स्यात् । सञ्चितधनः प्रसिद्धः कृशस्त्वधस्तात्प्रलाप्यन्ते ॥ १९ ॥
॥ इति वृषभे ॥ रोमोपचितांसभुजो घनासितापाङ्गक्तथोच्चनसः । दूर्वाकाण्डश्यामः कृशाङ्क्रिपाणिस्तृतीयभवनाद्ये ॥ २० ॥ घटशीर्षोऽशुचिकर्मा घातरुचिर्मध्यलग्नघोणः स्यात् । बहुभाषी बहुचेष्टो द्वितीयभागे तु विग्रहाधिपतिः ॥ २१ ॥ गौरोऽतिरक्तनयनः सनासिकः समतनुः सुमेधा स्यात् । दीर्घाननोऽसितपूर्वाचाचतुरस्तृतीयेंऽशे ॥ २२ ॥ सुभ्रूललाटकामी नीलोत्पलमूर्तिविपुलवक्षाः स्यात् । सितवको मृदुवक्रः प्रशस्तरोमाचितश्चतुर्थेऽशे ॥ २३ ॥ पृथ्वाननो बृहत्स्फिक्पीवरवक्षोभुजश्च खलः । स्थूलशिरा मायावी सितानुकूलेक्षणस्तु पञ्चमजः ॥ २४ ॥ मध्वीक्षणः प्रलापी व्यस्तललाटः समस्सुतनुः । कितवश्वलश्च रुधिरोष्ठरदः षष्ठे तु सत्वयुतः ॥ २५ ॥
१ दन्तो. २ वक्रं.
Aho ! Shrutgyanam