Book Title: Saravali
Author(s): Kalyanvarman, V Subhramanya Shastri
Publisher: Pandurang Javji
View full book text
________________
षट्चत्वारिंशोऽध्यायः ।
१८३ जन्मकाले विवाहे च चिन्तायां वरणे तथा ।
चिन्त्यं स्त्रीणां तु यत्प्रोक्तं घटते तत्पतिष्वपि ॥ ३२ ॥ इति कल्याणवर्मविरचितायां सारावल्यां स्त्रीजातकफलो नाम पञ्चचत्वारिंशोऽध्यायः॥
षट्चत्वारिंशोऽध्यायः। शिखिजलशस्त्रज्वरजस्त्वामयतृटू क्षुत्कृतो भवेन्मृत्युः । सूर्यादिभिर्निधनगैः परदेशे पथि स्वके चराद्यैश्च ॥ १॥ यो बलयुक्तो निधनं पश्यति तद्धातुकोपजो मृत्युः । तत्संयुक्तस्तनुजो बहुभिर्बलिभिर्बहुप्रकारः स्यात् ॥ २॥ सूर्याङ्गारकयोः खबन्धुगतयोः शैलाग्रपातोद्भवो
मृत्युभूतनयेन्दुभानुतनयैः कूपे खसप्ताम्बुगैः । पापालोकितयोहिमोष्णकरयोः कन्यास्थयोवन्धतो
लग्ने सूर्यशशाङ्कयोस्तिमियुगे तोये सदा मज्जतः ॥३॥ कर्किणि मन्दे मकरे चन्द्रे मृत्युदरोदरकृतः स्यात् । पौपान्तःस्थे चन्द्रे कुजभवने शस्त्रवह्निभवः ॥ ४ ॥ कन्यायां पद्मिनीशत्रुः पापमध्यगतः सदा । रक्तोत्थशोषजं मृत्युं करोति ध्रुवमेव हि ॥ ५॥ सौरः शुभयोर्मध्ये शेशी रज्वग्निपातजम् । कुर्यान्मृत्यु न सन्देहश्चाणक्यवचनं तथा ॥६॥ नवमसुतयोरशुभयोः पापग्रहदृष्टयोर्भवेन्मृत्युः। द्रेक्काणैः पाशभुजगनिगलैश्छिद्रेऽथवा गुस्याम् ॥ ७॥ मीनोदये दिनकरे चन्द्रे पापान्वितेऽस्तगे मेषे । स्त्रीहेतुकं हि मरणं स्वमन्दिरे स्याद्वदन्त्येके ॥८॥ रुधिरे सुखेऽथवा वियति यमे क्षीणचन्द्रसंयुक्तैः । पापैत्रिकोणलग्ने शूलपोतस्य निर्दिशेन्मरणम् ॥ ९॥
१ यदा. २ मज्जति. ३ पापांशस्थे. ४ स्तदा. ५ रज्वम्युत्पातजं शशी. ६ सुते. ७ युक्त.
Aho ! Shrutgyanam

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268