Book Title: Saravali
Author(s): Kalyanvarman, V Subhramanya Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 189
________________ एकचत्वारिंशोऽध्यायः। १७३ क्षयरोगभयं शौर्य नृपप्रभावं सदा विभवम् । चन्द्रदशायां पुंसो भानुः कुरुतेऽर्थलाभं च ॥ १८॥ पित्तासृग्वह्निभयं क्लेशं रोगं करोति वक्रदशा । चन्द्रदशायां च भयं प्रमोषणं चैव चोरैश्च ॥ १९॥ चन्द्रदशायां ज्ञदशाप्रवेशने चिह्नमुत्तमो लाभः । गजवाजिनां धनानां सम्प्राप्तिः सौख्यमतुलं च ॥ २० ॥ चन्द्रदशायां प्राप्ता त्रिदशेड्यदशा करोति धनलाभम् । यत्नोपात्तमकस्माद्वस्त्रालङ्कारविविधहस्त्यश्वम् ॥ २१ ॥ तुहिनकरस्य दशायां प्रविशत्यन्तर्दशा यदाऽऽस्फुजितः । जलयानहारभूषणबहुपत्नीभिः समागमं कुरुते ॥ २२ ॥ स्वजनायासवियोगं रोगाभिभवं तथा महाव्यसनम् । चन्द्रदशायां सौरिः करोति निःसंशयं पुंसाम् ॥ २३ ॥ चण्डं साहसनिरतं नरेन्द्रसंग्रामपूजितं धांच्याम् । विविधधनागमयुक्तं भौमदशायां करोति रविः ॥ २४ ॥ विविधधनागमलाभं सौख्यं बहुमित्रसम्प्राप्तिम् । वक्रदशायां चन्द्रः करोति मुक्तामणिप्रभृतीन् ॥ २५॥ दिशति भयं शत्रुभ्यो वाजिगजानां प्रमोषणं चोरैः । दाहं च यदा प्रविशति भौमदशायां बुधस्य दशा ॥२६॥ वऋदशायां च गुरोः सुचरितकरणेन शुभधर्मा । नृपतिर्विशुद्धचेताः पुण्यानि करोत्यनन्तानि ॥ २७ ॥ रुधिरदशायां शुक्रप्रवेशने भवति सङ्गरभयार्तिः । व्याधिव्यसनायासैर्धनापहारः प्रवासैश्च ॥ २८॥ व्यसनानि व्यसनानां भवन्त्युपर्युपरि जनविनाशश्च । वक्रदशायां रविजे प्रविशति चान्तर्दशायां हि ॥२९॥ इन्दुसुतस्य दशायां प्रविशति सूर्यो यदा तदा चिह्नम् । कनकाश्वविद्रुमगजान् विदधाति श्रियमकस्माच ॥३०॥ प्रविशन्ती चन्द्रदशा बुधस्य कण्डूं करोति कुष्ठं च । क्षयरोगमङ्गभङ्गं गजाद्भयं वाहनविनाशम् ॥ ३१ ॥ १ प्रमापणम्. २ धन्यं. Aho ! Shrutgyanam


Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268