Book Title: Sarasvatikanthabharanam
Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
Publisher: Pandurang Jawaji

Previous | Next

Page 7
________________ मधुरः) पृ० 628,2. ( शृङ्गारे विप्रलम्भाख्ये)पृ० 628,3. (रौद्रादयो रसा दीप्ताः) पृ० 628,4. (समर्थकत्वं वाक्यस्य) पृ० 628,5. (रसवन्ति हि वस्तूनि) पृ० ६३१,६.(रसाक्षिप्ततया यस्य) पृ० 631, ध्वन्यालोके समुदाहृतानि चाष्टौ पद्यान्युदाहरणत्वेन गृहीतानि / तानि यथा-(येन ध्वस्तमनोभवेन) पृ० 192, (तस्या विनापि हारेण) पृ० 222 ( अनुरागवती संध्या) पृ०३३२ (कस्स व ण होइ रोसो) पृ० 452, (प्राप्तश्रीरेष कस्मात् ) पृ. 455,713. (शेषो हेमगिरिस्त्वं च ) पृ० 475, (कुविआओ वि पसन्नाओ) पृ० 671. उदात्तराघवकर्ता-कवेरस्य नामविषये कालविषये च न किमपि ज्ञायते। धनिकेन दशरूपके (4 / 26) उदाहृतं 'मृगरूपं परित्यज्य' इत्यादिपद्यमत्रापि समुदाहृतम् (पृ. 739) / कालिदासः-अत्र महाकवेरस्य रघुवंश-कुमारसंभव-मेघदूतकाव्येभ्यः, शाकुन्तलविक्रमोर्वशीयनाटकाभ्यां चोद्धृतानि पद्यानि / रघुवंशीयानि 48 अष्टचत्वारिंशत् पद्यानि, कुमारसंभवाच्च 53 त्रिपञ्चाशत् पद्यानि, मेघदूताच 14 चतुर्दश पद्यानि, अभिज्ञानशाकुन्तलनाटकाच्च 37 सप्तत्रिंशत् पद्यानि, विक्रमोर्वशीयनाटकाच 16 षोडश पद्यानि समुदाहृतानि प्राप्यन्ते। सोऽयं पञ्चम्यां ख्रिस्तीयशताब्द्यां समुदभवदिति बहूनां पाश्चात्यानां पौरस्त्यानां च विदुषां मतम् / कुमारदासः-जानकीहरणकर्ता सिंहलद्वीपस्थः कविः / अयं कालिदाससमकालिक इति किंवदन्ती // 'कमले कमलोत्पत्तिः श्रूयते नापि दृश्यते / बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् // '. इति पद्यं चोभयकविकर्तृकं प्रसिद्धम् / क्षेमेन्द्रेणौचित्यविचारचर्चायां 'अयिं विजहीहि दृढोपगृहनं' इत्यादि पद्यं कुमारदासनाम्ना लिखितमत्रापि प्राप्यते (पृ० 151) / चण्डकः-'च्युतामिन्दोर्लेखां' (पृ. 608) इत्यादि पद्यं सुभाषितावलौ. चण्डकनाम्ना, शार्ङ्गधरपद्धतौ च क्रीडाचन्द्रनाम्ना प्राप्यते / समयोऽस्यानिश्चितः। चाणक्यः-'शैले शैले न माणिक्यं' इत्यादि पद्यं (पृ० 254) चाणक्यशतकादुद्धृतमत्रोदाहृतम् / अशोकपितामहश्चन्द्रगुप्तः ख्रिस्ताब्दारम्भात्पूर्व सप्तविंशत्यधिकशतत्रयपरिमितेषु वर्षेषु राज्यं चकारेति सिद्धमेव / कौटिल्यापरनामधेय

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 894