Book Title: Sarasvatikanthabharanam
Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
Publisher: Pandurang Jawaji

Previous | Next

Page 6
________________ // श्रीः॥ सरस्वतीकण्ठाभरणे समुदाहृतानां पद्यानां कवयो ग्रन्थाश्च / cccccccco, अद्भुतपुण्यः-सुभाषितावलौ कवेरस्य 'आयाते दयिते मरुस्थलभुवां' इत्यादि पद्यं अद्भुतफुल्लस्य' इति नाम्ना समुपलभ्यते / शार्ङ्गधरपद्धतौ तु. पद्यमेनदथ आयाते दयिते मनोरथशतैः' इत्यादिपद्यं चाद्भुतपुण्यनाम्नवोल्लिखिते / अद्भुतपुण्यः, अद्भुतफुल्लश्चाभिन्नाविति प्रतीयते / सरस्वतीकण्ठाभरणे 'आयाते दयिते मरुस्थलभुवा' इत्यादि पद्यमुदाहृतम् , दशरूपके च / कवेः समयोऽस्यानिश्चितः / अभिनन्दः-कादम्बरीकथासारकर्ता काश्मीरकः कविरनुमानतः ख्रिस्तीयाष्टमशतकोत्तरभागे समुत्पन्नः / यतोऽस्य पञ्चमः पूर्वपुरुषः शक्तिस्वामी. कर्कोटवंशोद्भवस्य मुक्तापीडनरपतेर्मन्त्रिप्रवर आसीदिति ग्रन्थकारः खवंशविस्तृतिमवर्णयद् ग्रन्थारम्भे / मुक्तापीड इति तु ललितादित्यस्यापरं नामेति राजतरङ्गिण्यां प्रसिद्धमेव, एवं स ख्रिस्तीयसप्तमशतकोत्तरभागे समासीदिति च। - अमरुः-अस्य सरस्वतीकण्ठाभरणे त्रयोदशपद्यान्युदाहृतानि / सोऽयं प्रसिद्धः कविः कदा समुत्पन्न इति न ज्ञायते / किंतु. श्रीमान् आनन्दवर्धनाचार्यः स्वीये ध्वन्यालोके तृतीयोझ्योते 'मुक्तकेषु हि.प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते / तथा यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव / ' इति लिखति / आनन्दवर्धनाचार्यात् प्राचीनोऽयमिति नवमनिस्तशताब्द्या अस्य पूर्वभवत्वं सिध्यति / .अनन्दवर्धमः-सुप्रसिद्धस्य ध्वन्यालोकस्य रचयिता काश्मीरक आलेकारिक कविः / काश्मीरेष्वयमवन्तिवर्मणः समये ख्रिस्तीयनवमशताब्द्यामासीदिति कलणस्य रम्जतरङ्गिणीतो ज्ञायते... .. मुक्ताकणः शिवस्खामी कविरानन्दवर्धनः / - प्रथां रत्नाकरश्चागात्साम्राज्येऽवन्तिवर्मणः // .. अस्य कवेः श्रीमता भोजदेवमहाराजेन षद कारिका उदृङ्किताः। १.(शृङ्गार एव

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 894