Book Title: Sarasvatikanthabharanam
Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
Publisher: Pandurang Jawaji

Previous | Next

Page 9
________________ : नारायणः-वेणीसंहारनामकनाटकस्य रचयिता / ध्वन्यालोकेऽपि तदीयानि पद्यानि समुपलभ्यन्त इति नवमशतकात् पूर्वतनोऽयं कविः / सरखतीकण्ठाभरणे 11 एकादशपद्यान्युदाहरणरूपेण संप्राप्यन्तेऽस्य / . .. निद्रादरिद्रः-'जाने कोपपराङ्मुखी प्रियतमा' पृ० 608 इति पद्यं सुभाषितावलौ निद्रादरिद्रकर्तृकत्वेन लिखितम् / तदेतत्पद्यं काव्यप्रकाशेऽपि श्रीमता मम्मटाचार्येण समुदाहृतम्। ...... . .... निशानारायणः-शार्ङ्गधरपद्धतौ 'अक्षुद्रारिकृताभिमन्यु' पृ० 586, 'उत्तिष्टन्या रतान्ते' पृ० 161, पृ० 620, इति पद्यद्वयी निशानारायणनाम्नोदृकिता। पञ्चस्तवीकर्ता-कवेर्नाम न लब्धम् / काव्यमालायां मुद्रितैवेयं पञ्चस्तवी। 'चञ्चत्काञ्चनकाश्चयो' पृ० 249, 'लक्ष्मीवशीकरणचूर्ण' पृ० 713 इति पद्यद्वयी सरखतीकण्ठाभरपो समुदाहृता पञ्चस्तव्यां प्राप्यते। प्रभाकरः-'दिङ्मातङ्गघटाविभक्त' पृ० 114, 175, 419 इति पद्य क्षेमेन्द्रस्यौचित्यविचारचर्चायां प्रभाकरस्येति संलिखितम् / प्रवरसेनः-सेतुबन्धकाव्यकर्ता / 31 एकत्रिंशत् पद्यानि सेतुबन्धादुद्धृतानि सरखतीकण्ठाभरणे / सोऽयं कविः कैनिंगहाममतेन 432 ख्रिस्ताब्देऽथोत् पञ्चमशताब्द्यामुत्पन्नः काश्मीरेषु / / बाणः-महाकवेरस्य सप्तमशतकोत्पन्नत्वं सुप्रसिद्धम् / श्रीमान् भोजदेवो द्वितीये परिच्छेदे..... 'यादृग्गद्यविधौ बाणः पद्यबन्धे न तादृशः। . गत्यां गत्यार्मियं देवी विचित्रा हि सरखती // ' इति बाणविषये लिखति / सरखतीकण्ठाभरणे कादम्बरीतः-'हर इव जितमन्मथो' पृ० 154 इति गद्यभागः, 'दिशामलीकालकभङ्गतां' इति पद्यं व समुदाहते। चण्डीशतकाच-'विद्राणे रुद्रवृन्दे' पृ० 247 'नीते निर्व्याजदीर्घा' पृ०२४७, * 'प्राक् कामं दहता कृतः परिभवो' पृ० 700 इति पद्यत्रयी समुदाहृता। सुभा षितावलौ शार्ङ्गधरपद्धतौ च बाणकर्तृकत्वेनोल्लिखितं पद्यद्वयं-सर्वाशारुधि दग्धवीरुधि' पृ. 248, 711, 'उद्यदर्हिषि दर्दुरारचपुषि' पृ० 248, अत्रोदाहृतम् /

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 894