Book Title: Sarasvatikanthabharanam
Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
Publisher: Pandurang Jawaji
View full book text
________________ विजयपालः–'अमृतमभृतं चन्द्रश्चन्द्रः' पृ० 254 इत्यादि पद्यं सुभाषिता चलो विजयपालनाम्ना प्राप्यते / विजिका-(विजका वा ) इयमपि स्त्री कविः / अस्याश्चापरं 'मारुला' इति नाम .. . 'नीलोत्पलदलश्यामां विजकां मामजानता। . वृथैव दण्डिना प्रोक्तं सर्वशुक्ला सरखती // ' इत्यपि पद्यं सुभाषितावलौ प्राप्यते / ततो दण्डिन अर्वाचीनेयमिति सिध्यति / अस्याः 'उन्नमय्य सकचग्रहमास्यं' पृ० 87, 601 इत्यादि पद्यम् , 'विलासमसृणोल्लसत्' पृ० 602 इत्यादि पद्यं च सुभाषितावलावुद्धते। विद्यापतिः-'सुभ्रूस्त्वं कुपितेत्यपास्त' पृ० 191 इत्यादि पद्यं शाधिरपद्धतौ विद्यापतिनाम्ना प्राप्यते। ... विशाखदत्तः--मुद्राराक्षसनाटककर्ता / अस्य उवरि घणं घणपडिअं. इत्यादि प्राकृतं पद्यं सरस्वतीकण्ठाभरणे संस्कृतभाषोपनिबद्धं 'उपरि घनं घनपटलं' पृ. 353 इति प्राप्यते। . .. विष्णुशर्मा-पञ्चतन्त्रस्य रचयिता / श्रूयतां धर्मसर्वखम्' पृ० 71 इत्यादि पद्यमुदाहृतं भोजदेवेन / पञ्चतन्त्रे याज्ञवल्क्यस्मृते मोपलभ्यत इति सोऽयं कविः ख्रिस्तीयतृतीयशताब्द्याः परतश्चतुर्थशताब्द्याश्च पूर्वं समुत्पन्न इति प्रतीयते। ... बिलणकविः महाकविरयं ख्रिस्तीयैकादशशताब्द्यामुत्पन्नः / अस्य चौरीसुरतपञ्चाशिकातः 'अद्यापि तत्कनककुण्डल' पृ० 136 इत्यादि पद्यमुदाहृतं ग्रन्थका। . शूद्रकः-मृच्छकटिकप्रकरणस्य कर्ता / स्कन्दपुराणस्य कुमारिकाखण्डानुसारमेष कलिवर्षेषु 3290 वर्षेषु व्यतीतेषूदभवत् / मार्समैन नामकपाश्चात्यविदुषा लिखितस्य भारतेतिहासस्यानुसारं मगधशासकः सिपरुक्नामको सजमन्त्री 191 ख्रिस्तवर्षे शूद्रकेण हत इति शूद्रको द्वितीयंत्रिस्तशताब्द्यामासीत् / 'पलिच्चले : लम्बदशाकपाल' पृ० 692 इत्यादि पद्यं 'जदिच्छशे' इत्यादि मृच्छकटिके प्राप्यते / / श्रीहर्ष: रत्नावलीनाटिकायाः, प्रियदर्शिकानाटिकायाः, नागानन्दनाटकस्य, . चं कर्ता सुप्रसिद्धः कान्यकुब्जेश्वरो बाणमयूरादिप्रसिद्धकवीनामाश्रयभूतः सप्तमशतकोत्पन्नः / रत्नावल्या नव पद्यानि, नागानन्दाचैकं पद्यं 'दृष्टा दृष्टिमधो ददाति
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/404cc921a75175a63ed14685e7b3c8e85eb7ac8203c5e0b6883426dd621d1605.jpg)
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 894