Book Title: Sarasvatikanthabharanam Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri Publisher: Pandurang JawajiPage 11
________________ भारविः-किरातार्जुनीयकर्ता / सप्तमशताब्द्यामुल्लिखिते द्वितीयस्य पुलके-- शिनः शिलालेखे कवेरस्य कालिदासस्य च नामोपलब्ध्या ततः प्राक्तनत्वमस्य सिध्यति / भोजदेवेन खग्रन्थे 38 अष्टत्रिंशत् पद्यान्युद्धतानि / भास:-कालिदासादयं प्राचीन इति बहूनां मतम् / अस्य नाटकचक्रं महामहोपाध्यायगणपतिदेवशास्त्रिभिः सुत्रु संपादितं प्रकाशितं च / . भोजराजः-'कियन्मानं जलं विप्र' इति पद्यं पृ० 122,298 शाधिरपद्धतौ भोजराजनाना लभ्यते / सोऽयमस्माकं सरस्वतीकण्ठाभरणकर्ता भोजदेवः / परंत्वे. तत्पद्यं न भोजस्य खोपज्ञमेवेति ज्ञायते। यतो राजशेखरः खीयकाव्यमीमांसायां श्लोकमेनमुदाजहार / राजशेखरश्च भोजात् प्राचीनः। मञ्जीरः-'अन्यतो नय मुहूर्तमाननं' इति पद्यं (पृ. 437) सुभाषितावलौ मञ्जीरनाम्ना लिखितम् / महानाटककर्ता-महानाटककर्ता हनुमानामकविः श्रीरामदूतो हनुमान् वेति न निश्चितम् / ग्रन्थेऽस्मिन् बहवः श्लोका ग्रन्थान्तरीया अपि सन्तीति समालोचकभणितिः / एवमपि प्रवादो यदेतनाटकं समुद्रे शिलोल्लिखितप्रक्षिप्त भोजदेवेनैव संलब्धं प्रकाशितं च / संभाव्यतेऽस एवास्माभिरपि यदत्र शीर्णो भागः प्राक्तनैः प्रसिद्धः पद्यैः पूरितो भवेत् केनचित् कविनेति / माघः-शिशुपालवधकाव्यस्य रचयिता सुप्रसिद्धो माघः कविः निस्ताब्दीयनवमशतकात्कथमपि नार्वाचीनः / यतो ध्वन्यालोके माघकाव्यादुदाहृतानि पद्यानि श्रीमतानन्दवर्धनाचार्येण / 44 चतुश्चत्वारिंशत्पद्यान्युदाहरणरूपेण सरखतीकण्ठाभरणे भोजदेवेनापि संकलितानि / कवेरस्य विशेषवर्णनं द्रष्टुकामैरस्मत्पितृचरणैः श्रीमन्महामहोपाध्यायदुर्गाप्रसादमहोदयैः संपादितस्य माघस्य भूमिका विलोक्या। मालवरुद्रः–'अभिनववधूरोषखादुः' पृ० 131, 722 इत्यादि पद्यं मालवरुद्रनाम्नोदाहृतं क्षेमेन्द्रेणौचित्यविचारचर्चायाम् / - मुजः-वाक्पतिरिति प्रसिद्धोऽयं मुञोऽस्माकं ग्रन्थकर्तुर्भोजदेवस्य ज्येष्ठः / पितृव्यः / दशरूपकभूमिकायां हालपण्डितः सुष्ठ वर्णितवान् बिषयमेनम् / ऑफ्रे क्टपण्डितमतेन 'सौजन्याम्बुनिधे' पृ० 60 श्लोकोऽयं मुञ्जकृतः / परं लोकेऽस्मिन् मुझं लक्ष्यीकृत्यैवोक्तिः / सेयमुक्तिर्भोजदेवस्य संभाव्यते। . . मेण्ठ: हयग्रीववधनामकस्य काव्यस रचयिता काश्मीरकोऽयं महाकविः /Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 894