Book Title: Sarasvatikanthabharanam Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri Publisher: Pandurang JawajiPage 10
________________ बृहदारण्यकोपनिषद्-अस्या उपनिषदः 'यस्मिन् पञ्च पञ्च जनाः' पृ. 26, इति पद्यमथ 'दमं दानं दयां शिक्षेः' पृ० 385 इति मन्त्रपूर्ण पद्यं चोद्धत्योदाहृते भोजदेवेन। . ब्रह्मबिन्दूपनिषद्-अस्याश्चोपनिषदः-'एक एव हि भूतात्मा' पृ० 404 एष श्लोकः समुद्धृत्योदाहृतः। .. भट्टकपर्दी-सुभाषितावलौ ‘अम्बा तुष्यति न मया' पृ० 524 इति पद्यं भट्टकपर्दिनानोदृङ्कितम् / .. भट्टिः--भट्टिकाव्याद् भोजदेवेन षट् पद्यान्युद्धतानि / ऑफेक्टपण्डितमतेन भट्टिः, भट्टखामी, भर्तृवामी चैकस्यैव विदुषो नामानि / वेबरमतानुसारं भट्टिकाव्यं मष्ठ्यां सप्तम्यां वा शताब्द्यां श्रीधरसेननामकस्य राज्ञः पुत्रे वल्लभी शासति तत्रैव रचितं भट्टिकविनेति सुभाषितावलौ डॉ. पीटरसनः संलिखति।। भरतः-नाट्यशास्त्रात् सरखतीकण्ठाभरणे कारिकाद्वयी पञ्चमपरिच्छेदारम्भे संगृहीता ‘रतिर्हासश्च शोकश्च' इति, 'स्तम्भस्तनूरुहोद्भेदः' इति च। कालोऽस्याद्याप्यनिश्चित एव / / भर्तृहरिः-नीतिशतकात् 'इतः खपिति केशवः' पृ० 460 इति पयं संकलितं भोजदेवेन / एतदीयं वाक्यपदीयं हेलाराजपुञ्जराजाभ्यां विरचितयां टीकया सनाथमिति हेलाराजात् प्राग्भवत्वमस्यैवं हेलाराजस्य कह्नणात् प्राचीनत्वमिति बहु प्राचीनोऽयम् / अस्य विषये जयपुरस्थानां प्रधानराज्याधिकारिणां रायबहादूर पुरोहित श्रीगोपीनाथ एम्. ए., सी. आई. ई. इति सुगृहीतनामधेयैः संलिखिता शतकत्रयभूमिका समालोच्या भावुकैः / :: भल्लटः-भटशतककर्ता / 'किं जातोऽसि चतुष्पथे' पृ० 458 इति पद्य सुभाषितावलौ भल्लटनाम्नोपलब्धम् / भवभूतिः-उत्तररामचरित-महावीरचरित-मालतीमाधवनाटकानां कर्ता / डॉक्तरश्रीरामकृष्णगोपालभाण्डारकरमतेनाष्टमशताब्द्याः पूर्वभागे समुत्पन्नः / सरखतीकण्ठाभरण उत्तररामचरिताद् 22 द्वाविंशतिः पद्यानाम् , महावीरचरिताच पयानी 16 षोडशी, मालतीमाधवाच्च 35 पञ्चत्रिंशत् पद्यान्युदाहृतानि भोजदेवेन / भामहः-आलंकारिकोऽयं सुप्रसिद्धः / अस्य ग्रन्थोऽपि प्रकाशित एव। 'ध्वनिकारादानन्दवर्धनादयं प्राचीनः / 'किंशुकव्यपदेशेन' इति पy पृ०. 469 सुभाषितावलौ भामहनाम्नोल्लिखितम् /Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 894