Book Title: Sarasvat Vyakaranam Author(s): Vasudev Sharma Publisher: Pandurang Javaji View full book textPage 4
________________ (8) वृत्तित्रयात्मकेऽस्मिन्व्याकरणेऽनुभूतिस्वरूपाचार्यैस्तत्रतत्र बालानां सुखबोधाय सूत्रवृत्तिस्तत्तदुदाहरणानि च यथावद्व्याख्यातानि सन्ति । तथा पाणिनीय व्याकरणवदाक्षेपसमाधानाद्यपि विशेषतोऽनवबोधभिया नोपकॢप्तम् । किंतु यथानायासेनाल्पमतीनामपि व्युत्पित्सु बालानां सुबन्त-तिङन्त-कृदन्त-समास - तद्धिताद्युदाहरणानां सुखबोधः स्यात्त थास्य रचना कृतास्ति । तदेतत्सर्वोपकारकमेतत्पुस्तकमेतावन्तं बहुभिरङ्कितमपि सुव्यवस्थयाऽस्माभिरस्य मूलतो यावदन्तं प्रतिसूत्रं सूत्रारम्भ एव क्रमाङ्को विन्यस्तः । सूत्रान्ते प्रकरणसूत्राकोऽपि पूर्वाङ्कितक्रमपरिपाट्यैव तत्रतत्र स्थापितोऽस्ति । सर्वेषां वृत्तित्रयस्थसूत्राणां प्रसङ्गसमकालं शीघ्रोपस्थितये च य आरम्भादाग्रन्थावधि स्थूलः क्रमाको निवेशितस्तदनुगुणमेवान्तेऽखिलसूत्राणामकरादिमातृकावर्णक्रमकोशः संयोजितः । तथा पूर्वमेकवारमागतान्यपि कानिचित्सूत्राणि ग्रन्थकृता प्रसङ्गवशात्कचन पुनरुपात्तान्यपि तत्तत्स्थलोपस्थित्यै तानि तानि भिन्नक्रमाङ्क योजनेन निर्दिष्टक्रमाङ्क एव गुम्फितानि सन्ति ग्रन्थारम्भे च सर्वेषां सौलभ्याय प्रत्याहार-वर्ण- प्रयत्नादिग्रन्थबहिर्भूता अपि विषयाः पृथक्कोष्ठकैर्निर्दिष्टाः सन्ति । सर्वं मूलं च जयपुरतः पण्डितवर - शिवदत्तशास्त्रिभिः प्रहितप्राचीन हस्तलिखित पुस्तक मेलनेन यथामति शोधितमासीत् । कृतेप्येतादृशि प्रयत्ने 'गच्छतः स्खलन—' मिति न्यायेन मनुजाल्पधिषणानिसर्गसुलभं स्खलितं क्षमध्वमिति सदयार्द्रहृदो ग्रन्थशोधनायासविदः कोविदानसकृदभ्यर्थना || 1Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 304