________________
सारस्वतव्याकरणम् । [वृत्तिः १ १६ यस्येत्संज्ञा तस लोपः १६ ॥ १७ वर्णादर्शनं लोपः १७ ॥ १८ वर्णविरोधी लोपश १८॥ एकं वर्णं नाशयति अन्यस्योत्पत्तिं प्रतिबध्नाति स वर्णविरोधः ॥ १९ मित्रवदागमः १९ ।। २० शत्रुवदादेशः २०॥ २१ वरानन्तरिता हसा संयोगः २१॥ २२ कुचुटुंतुपुवगोंः २२ ॥ उकारः पञ्चवर्णपरिग्रहणार्थः ॥ २३ अरेदो नामिनो गुणः २३ ॥ नॉमिनः स्थानका अर् ओ एते गुणसंज्ञका भवन्ति ॥ २४ औरैऔ वृद्धिः २४ ॥ आ आर ऐ औ एते वृद्धिसंज्ञा भवन्ति ॥२५अन्त्यस्वरादिष्टिः २५॥ अन्त्यो यः खरस्तदादिवर्णष्टिसंज्ञो भवति ॥ २६ अन्त्यात्पूर्व उपधा २६ ॥ अन्त्याद्वर्णमात्रात्पूर्वो यः स उपधासंज्ञो भवति ॥ २७ असंयोगादिपरो हृखो लघुः २७ ॥ २८ विसर्गानुस्वारसंयोगपरो दीर्घश्च गुरुः २८ ॥ २९ मुखनासिकाभ्यामुच्चार्यमाणो वर्णोऽनुनासिकः २९ ॥ ३० मुंखेनोचार्यमाणो निरनुनासिकः ३० ॥३१ अः इति विसर्जनीयः ३१ ॥ ३२ वर्णशिरोबिन्दुरबुखारः ३२ ॥ अं अः इति अचः परावनुखारविसर्गौ । [ कस्य पुनः किं स्थानमित्यपेक्षायां ] अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदेतोः कण्ठतालु ।
१ वर्णान्ते स्थानाद्रंशः । २ संधिकार्यवर्जनम् । ३ मध्ये खरै रहिता हसाः केवलव्यञ्जनानि । ४ क ख ग घ ङ इति प्रत्येकमेते स्वीयपञ्चकग्राहकाः । ५ अकारखरसहितवर्णानां मध्ये । ६ आदिशब्देन संयोगविसर्गानुखाराः।