________________
सू० ६-३२] संज्ञाप्रकरणम् १ वरल ६॥ ७ अणनङम ७ ॥ ८ झढधषभ ८॥ ९ जडदगब ९॥१० छठथखफ १० ॥११ चटतकप ११ ॥ १२ शषस १२॥ १३ आद्यन्ताभ्याम् १३ ॥ प्रत्याहारं जिघृक्षताघन्ताभ्यामेते वर्णा ग्राह्याः । आदिमवर्णोऽन्त्येन गृह्यमाणस्तन्नामा प्रत्याहारः । तथाहि । अकारो बकारेण गृह्यमाणोऽबप्रत्याहारः । स च अइउऋलएऐओऔहयवरलञणनङमझढधघभजडदगब इति अबप्रत्याहारः। झढधघभ इति झभप्रत्याहारः । एवं यत्र यत्र येन येन प्रत्याहारेण कृत्यं भवति स स तत्र तत्र ग्राह्यः । [प्रत्याहाराणां संख्यानियमस्तु नास्ति ] ॥ १४ हसा व्यञ्जनानि १४ ॥ हकारादयः सकारान्ता वर्णा हसा व्यञ्जनानि भवन्ति । खरहीनं व्यञ्जनम् । खरेभ्योऽन्यत्खरहीनम् । अन्यथा खरेषु खरो नास्तीति तेषां खराणामपि व्यञ्जनता स्यात् । यद्वा भावप्रधानो निर्देशः । खरत्वहीनमित्यर्थः । तेष्वकारः सुखोचारणार्थत्वादित्संज्ञकः ॥ १५ कार्यायेत् १५ ॥ प्रत्ययातिरिक्तः कस्मैचित्कार्यायोचार्यमाणो वर्ण इत्संज्ञो भवति ।।
१ प्रत्याहाराणां संख्यानियमो नास्त्रीत्युक्तं तथापि बालबोधाय चन्द्रकी.. द्युक्तसारखतीयप्रत्याहारसंग्रहोऽयं क्रियते ।
१ हस | २ झब | ३ जब
४ यप | ५ अब | ६ इल
७ वप
८ बम
| ९ झभ
१० खस ११ झस १२ छत
| १३ यम १४ हब | १५ खप १६ डब | १७ ढभ १८ रस
२४ भब
१९ वस २० शस २१ झप २२ अव २३ ओ २ खरहीनं अकारादिखरै रहितं खरेभ्योऽन्यच्च ।