Book Title: Sanskrit Sahitya Me Sarasvati Ki Katipay Zankiya
Author(s): Muhammad Israil Khan
Publisher: Crisent Publishing House

View full book text
Previous | Next

Page 135
________________ -१४– सरस्वती - सम्बन्धी कुछ पौराणिक पाठ्य लोकसृष्टयर्थं हृदि कृत्वा समस्थितः । ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् ॥ ३० ॥ स्त्रीरूपमर्धं मकरोदर्धं पुरुषरूपवत् । शतरूपा च सा ख्याता सावित्री च निगद्यते ॥ ३१ ॥ सरस्वत्यथ गायत्री ब्रह्माणी च परंतप । ततः स्वदेहसंस्तामात्मजामित्यकल्पयत् ॥ ३२ ॥ दृष्ट्वा तां व्यथितस्तावत्कामबाणादितो विभुः । अहो रूपमहो रूपमिति चाऽऽह प्रजापतिः ॥ ३३ ॥ ततो वसिष्ठप्रमुखा भगिनिमिति चुक्र ुशुः । ब्रह्मा न किञ्चिद्ददृशे तन्मुखालोकमादृते ॥ ३४ ॥ अहो रूपमहो रूपमिति प्राह पुनः पुनः । ततः प्रणामनस्त्रां तां पुनरेवाभ्यलोकयत् ॥ ३५ ॥ श्रथ प्रदक्षिणां चक्र सा पितुर्वरवर्णिनी । पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छ्या ॥ ३६ ॥ श्राविर्भूतं ततो वक्त्रं दक्षिणं पाण्डुगण्डवत् । विस्मयस्फुरदोष्ठं च पाश्चात्यमुदगात्ततः ॥ ३७ ॥ चतुर्थमभवत्पश्चाद्वामं कामशरातुरम् । ततोऽन्यदभवत्तस्य कामातुरतया तथा ॥ ३८ ॥ उत्पतन्त्यास्तदाकाश आलोकनकुतूहलात् । सृष्ट्यर्थं यत्कृतं तेन तपः परमदारुणम् ॥ ३६ ॥ तत्सर्वं नाशमगमत्स्वसुतोपगमेच्छया । तेनोध्वं वक्त्रमभवत्पञ्चमं तस्य धीमतः । श्राविर्भवज्जटाभिश्च तद्वक्त्रं चाऽऽवृणोत्प्रभुः ॥ ४० ॥ X X उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् । सबभूव तया सार्धमतिकामातुरो विभुः । स लज्जां चकमे देवः कमलोदरमन्दिरे ॥ ४३ ॥

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164