Book Title: Sanskrit Sahitya Me Sarasvati Ki Katipay Zankiya
Author(s): Muhammad Israil Khan
Publisher: Crisent Publishing House

View full book text
Previous | Next

Page 136
________________ ११८ संस्कृत-साहित्य में सरस्वती की कतिपय झाँकियाँ यावदन्दशतं दिव्यं यथाऽन्यः प्राकृतो जनः । ततः कालेन महता तस्याः पुत्रोऽभवत्मनुः ॥ ४४ ॥ मत्स्यपु० श्रध्या० ३ परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः । हेमकूटस्य पृष्ठे तु सर्पाणां तत्सरः स्मृतम् ॥ ६४॥ सरस्वती प्रभवति तस्माज्ज्योतिष्मती तु या । अवगाढे ह्य ुभयतः समुद्रौ पूर्वपश्चिमौ ॥ ६५ ॥ म० पु० अध्या० १२१ पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती । ग्रामे का यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ १० ॥ म० पु० अध्या० १८६ प्राज्यस्थालों न्यसेत् पार्श्वे वेदांश्च चतुरः पुनः । वामपार्श्वेऽस्य सावित्रीं दक्षिणे च सरस्वतीम् ॥ ४४ ॥ म० पु० अध्या० २६० मातृणां लक्षणं वक्ष्ये यथावदनुपूर्वशः । ब्रह्माणी ब्रह्मसदृशी चतुर्वक्त्रा चतुर्भुजा ॥ २४ ॥ हंसाधिरूढा कर्त्तव्या साक्षसूत्रकमण्डलुः । महेश्वरस्य रूपेण तथा माहेश्वरी मता ॥ २५ ॥ म० पु० अध्या० २६१ प्रादुर्भूता महानादा विश्वरूपा सरस्वती । विश्व माल्याम्बरधरं विश्वयज्ञोपवीतिनम् ॥ ३८ ॥ X X X आनन्दस्तु स विज्ञेय श्रानन्दस्वे महातपः । गालव्यगोत्रतपसा मम पुत्रस्त्वमागतः ॥ ५० ॥ त्वयि योगश्च सांख्यं च विद्याविधिः क्रिया । ऋतं सत्यं च यद्ब्रह्म अहिंसा संततिक्रमाः ॥ ५१ ॥ ध्यानं ध्यानवपुः शान्तिविद्याऽविद्या मतिधू तिः । कान्तिः शान्तिः स्मृतिर्मेधा लज्जा शुद्धिः सरस्वती । तुष्ठिः पुष्टिः क्रिया चैव लज्जा शांतिः प्रतिष्ठिता ॥ ५२-५३ ॥ षड्वशत्तद्गुणा ह्येषा द्वात्रिंशाक्षरसंज्ञिता । प्रकृति विद्धि तां ब्रह्मणस्त्वत्प्रसूति महेश्वरीम् ॥ ५४ ॥ सैवा भगवती देवी तत्प्रसूतिः स्वयंभुवः । चतुर्मुखी जगद्योनिः प्रकृतिगौं प्रकीर्तिता ॥ ५५ ॥

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164