Book Title: Sanskrit Sahitya Me Sarasvati Ki Katipay Zankiya
Author(s): Muhammad Israil Khan
Publisher: Crisent Publishing House

View full book text
Previous | Next

Page 143
________________ सरस्वती-सम्बन्धी कुछ पौराणिक पाठय १२५ दारुण्यवस्थितो वह्निभूमौ गन्धो यथा श्रुतम् । तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ॥ ८॥ ऊँकाराक्षरसंस्थानं यत्र देवि स्थिरास्थिरम् । तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च ॥ ६॥ त्रयो लोकास्त्रयो वेदास्त्रविद्यं पावकत्रयम् । त्रीणि ज्योतींषि वर्गाश्च त्रयो धर्मादयस्तथा ।। १० ।। त्रयो गुणास्त्रयो वर्णास्त्रयो देवास्तथा मात् । विधातवस्तथाऽवस्थाः पितरश्चाणिमादयः ॥ ११ ॥ एतन्मात्रात्रयं देवि तव रूपं सरस्वति । विभिन्नदर्शना आद्या ब्रह्मणो हि सनातनाः ॥ १२ ॥ वामनपु० अध्या० ३२ वनान्येतानि वै सप्त नदीः शृणुत मे द्विजाः। सरस्वती नदी पुण्या तथा वैतरणी नदी ॥ ६ ॥ आपगा च महापुण्या गङ्गा मन्दाकिनी नदी। मधुलवा अम्लुनदी कौशिकी पापनाशिको ॥ ७॥ दृषद्वती महापुण्या तथा हिरण्वती नदी। वर्षाकालवहाः सर्वा वर्जयित्वा सरस्वती ॥ ८॥ वामनपु० अध्या० ३४ पुष्टिध तिस्तथा कीतिः कान्तिः क्षमा तथा । स्वधा स्वाहा तथा वाणी तवायत्तमिदं जगत् ॥ १५॥ त्वमेव सर्वभूतेषु वाणीरूपेण संस्थिता । एवं सरस्वती तेन स्तुता भगवती तदा ॥ १६ ॥ वामनपु० अध्या० ४० गौरीदेहात् समुद्भूता या सत्वैकगुणाश्रया। साक्षात्सरस्वती प्रोक्ता. शुम्भासुरनिबहिणी ॥ १४॥ दधौ चाष्टभुजाबाणमुसले शूलचक्रभृत् । शङ्ख घण्टा लागलं च कार्मुकं वसुधाधिप ॥ १५ ॥ एषा सम्पूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति । निशुम्भमथिनी देवी शुम्भासुरनिबहिणी ॥ १६ ॥ वैकृतिरहस्यम् ५६ -:०:--

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164