________________
११८
संस्कृत-साहित्य में सरस्वती की कतिपय झाँकियाँ
यावदन्दशतं दिव्यं यथाऽन्यः प्राकृतो जनः । ततः कालेन महता तस्याः पुत्रोऽभवत्मनुः ॥ ४४ ॥
मत्स्यपु० श्रध्या० ३
परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः । हेमकूटस्य पृष्ठे तु सर्पाणां तत्सरः स्मृतम् ॥ ६४॥ सरस्वती प्रभवति तस्माज्ज्योतिष्मती तु या । अवगाढे ह्य ुभयतः समुद्रौ पूर्वपश्चिमौ ॥
६५ ॥
म० पु० अध्या० १२१
पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती । ग्रामे का यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥
१० ॥
म० पु० अध्या० १८६
प्राज्यस्थालों न्यसेत् पार्श्वे वेदांश्च चतुरः पुनः । वामपार्श्वेऽस्य सावित्रीं दक्षिणे च सरस्वतीम् ॥ ४४ ॥
म० पु० अध्या० २६०
मातृणां लक्षणं वक्ष्ये यथावदनुपूर्वशः । ब्रह्माणी ब्रह्मसदृशी चतुर्वक्त्रा चतुर्भुजा ॥ २४ ॥ हंसाधिरूढा कर्त्तव्या साक्षसूत्रकमण्डलुः । महेश्वरस्य रूपेण तथा माहेश्वरी मता ॥ २५ ॥
म० पु० अध्या० २६१
प्रादुर्भूता महानादा विश्वरूपा सरस्वती । विश्व माल्याम्बरधरं विश्वयज्ञोपवीतिनम् ॥ ३८ ॥
X
X
X आनन्दस्तु स विज्ञेय श्रानन्दस्वे महातपः । गालव्यगोत्रतपसा
मम पुत्रस्त्वमागतः ॥ ५० ॥ त्वयि योगश्च सांख्यं च विद्याविधिः क्रिया । ऋतं सत्यं च यद्ब्रह्म अहिंसा संततिक्रमाः ॥ ५१ ॥ ध्यानं ध्यानवपुः शान्तिविद्याऽविद्या मतिधू तिः । कान्तिः शान्तिः स्मृतिर्मेधा लज्जा शुद्धिः सरस्वती । तुष्ठिः पुष्टिः क्रिया चैव लज्जा शांतिः प्रतिष्ठिता ॥ ५२-५३ ॥ षड्वशत्तद्गुणा ह्येषा द्वात्रिंशाक्षरसंज्ञिता । प्रकृति विद्धि तां ब्रह्मणस्त्वत्प्रसूति महेश्वरीम् ॥ ५४ ॥ सैवा भगवती देवी तत्प्रसूतिः स्वयंभुवः । चतुर्मुखी जगद्योनिः प्रकृतिगौं प्रकीर्तिता ॥ ५५ ॥