________________
-१४–
सरस्वती - सम्बन्धी कुछ पौराणिक पाठ्य
लोकसृष्टयर्थं हृदि कृत्वा समस्थितः । ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् ॥ ३० ॥ स्त्रीरूपमर्धं मकरोदर्धं पुरुषरूपवत् । शतरूपा च सा ख्याता सावित्री च निगद्यते ॥ ३१ ॥ सरस्वत्यथ गायत्री ब्रह्माणी च परंतप ।
ततः
स्वदेहसंस्तामात्मजामित्यकल्पयत् ॥ ३२ ॥ दृष्ट्वा तां व्यथितस्तावत्कामबाणादितो विभुः । अहो रूपमहो रूपमिति चाऽऽह प्रजापतिः ॥ ३३ ॥ ततो वसिष्ठप्रमुखा भगिनिमिति चुक्र ुशुः । ब्रह्मा न किञ्चिद्ददृशे तन्मुखालोकमादृते ॥ ३४ ॥ अहो रूपमहो रूपमिति प्राह पुनः पुनः । ततः प्रणामनस्त्रां तां पुनरेवाभ्यलोकयत् ॥ ३५ ॥ श्रथ प्रदक्षिणां चक्र सा पितुर्वरवर्णिनी । पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छ्या ॥ ३६ ॥ श्राविर्भूतं ततो वक्त्रं दक्षिणं पाण्डुगण्डवत् । विस्मयस्फुरदोष्ठं च पाश्चात्यमुदगात्ततः ॥ ३७ ॥ चतुर्थमभवत्पश्चाद्वामं कामशरातुरम् । ततोऽन्यदभवत्तस्य कामातुरतया तथा ॥ ३८ ॥ उत्पतन्त्यास्तदाकाश आलोकनकुतूहलात् । सृष्ट्यर्थं यत्कृतं तेन तपः परमदारुणम् ॥ ३६ ॥ तत्सर्वं नाशमगमत्स्वसुतोपगमेच्छया ।
तेनोध्वं वक्त्रमभवत्पञ्चमं तस्य धीमतः । श्राविर्भवज्जटाभिश्च तद्वक्त्रं चाऽऽवृणोत्प्रभुः ॥ ४० ॥
X
X
उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् । सबभूव तया सार्धमतिकामातुरो विभुः ।
स लज्जां चकमे देवः कमलोदरमन्दिरे ॥ ४३ ॥