Book Title: Sanskrit Sahitya Me Sarasvati Ki Katipay Zankiya
Author(s): Muhammad Israil Khan
Publisher: Crisent Publishing House

View full book text
Previous | Next

Page 140
________________ १२२ संस्कृत-साहित्य में सरस्वती की कतिपय झाँकियाँ इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती । त्वमेव यास्यसि महीं पापिपापं सभिष्यसि ॥ ४१ ॥ ब्रह्म० पु० प्रकृतिखण्डः, अध्या० ६ सरस्वती । पदम् ॥ पुण्यक्षेत्रे ह्या जगाम भारते सा गङ्गाशापेन कलया स्वयं तस्थौ हरेः भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया । वागधिष्ठातृदेवी सा तेन वाणी च कीर्तिता ॥ सर्वं विश्वं परिव्याप्य स्त्रोतस्येव हि दृश्यते । हरिः सर. सु तस्येयं तेन नाम्ना सरस्वती ॥ सरस्वती नदी सा च तीर्थरुपातिपावनी । पापपापेधमदाहाय ज्वलदग्निस्वरूपिणी ॥ X X ब्रह्म० पु० प्रकृतिखण्डः, प्रध्या० ७ X तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः । ब्रह्मणोऽभून्महाक्रोधस्त्रैलोक्यदहनक्षमः 11 २ ॥ ३ ॥ ४॥ 11 5 11 & 11 तस्य क्रोधात् समुद्भूतज्वालामालाविदीपितम् । ब्रह्मणोऽभूत् तदा सर्वं त्रैलोक्यमखिलं मुनी ॥ भृकुटिकुटिलात् तस्य ललाटात् क्रोधदीपितात् । समुत्पन्नस्तदा रुद्रो मध्याह्लार्कसमप्रभः ॥ १० ॥ अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान् । विभजात्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे ततः ॥ ११ ॥ तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्त्रं तथाकरोत् । विभेद पुरुषत्वञ्च दशधा चैकधा च सः ॥ १२ ॥ सौम्या सौम्यैस्तथा शान्ताशान्तैः स्त्रीत्वञ्च स प्रभुः । विभेद बहुधा देवः स्वरूपैरसितैः सितैः ।। १३ ।। ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायम्भुवं प्रभुः । श्रात्मानमेव कृतवान् प्रजापाल्ये मनं द्विजम् ॥ १४ ॥ शतरूपाञ्च तां नारीं तपोनिर्धूतकल्मषाम् । स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः ॥ १५ ॥ X X X विष्णु पु० १.७

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164