Book Title: Samanyanirukti Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 159
________________ सामान्यनिरुक्तिविवेचना मितिचेन्न साजात्यघटकवाधत्वादिशरीरेऽव्याप्यवृत्तिस्वनमानास्क. न्दितत्वनिवेशे प्रयोजनाभावेन सामान्यतोऽव्याप्यवृत्तित्वज्ञानानास्कन्दितत्वस्यैव निविष्टत्वन वृक्षः कपिसंयोगीस्यत्र कपिसंयोगाभा. वघदक्षत्वे वाधवत्वस्य सत्तया तदवच्छिन्नेऽतिप्रसङ्गवारणाय वि शेष्यदललार्थक्यात् तत्र च निश्चयविशेषणतयाऽव्याप्यवृत्तिस्व. मानास्कन्दितत्वस्येव घटकतायाः प्रागुक्तत्वात् नच विशेष्यदल निवेशापेक्षया साजात्यघटकबाधत्वत्वादिशरीरे विशिष्याव्याप्यवृ. तित्वभ्रमानास्कन्दितत्वनिवेशस्य लघुत्वात् तदेव निवेशयितु मुचि. तमितिवाच्यं विशेष्यदले मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तौ तद्वारणाय विशेषणोपादानन्तत्तथैवोपादेयं यथा न विशेष्यदलक्षतिरन्यः थोपजीव्यविरोधादितिवाधत्वत्वादिशरीरे ऽव्याप्यवृत्तित्वभ्रमानास्क. न्दितत्वस्यानिशनीयत्वात् अव्याप्यवृत्तित्वभ्रमानास्कन्दितत्वादिघ. टितबाधत्वादिसहितरहितविशेप्यदलस्य लक्षणान्तरत्वन्तु को नाम निवारयितुमीष्ट ॥ अतएव विरोधिविषयताप्रयुक्तत्वप्रयुक्तगौरवं पुर स्कृत्य निर्वीजम्प्रतियोगिस्वत्वघटितविशेषणानुधावन्नोचितमित्यपा स्तम् विरोधविषयताप्रयुक्तत्वस्य विशेष्यदलघटकतया तद्वैपये विशे यस्वरूपहानावुपजीव्यविरोधापत्या प्रतियोगिस्वत्वमन्तर्भाव्यैव वि शेषणदलस्योपादेयत्वात् । किञ्च बाधत्वत्वव्यभिचारत्ववाद्येकैकशरी रेव्याप्यवृत्तित्वभ्रमानास्कन्दितत्वनिवेशे लक्षणशरीरे गुरुभूतानेकभ्र मत्वोपादानापेक्षयकभ्रमत्वघटितविशेष्यदलोपादानस्यैव युक्तत्वात्। यतु वह्नयभाववज्जलवद्वृत्तिजलवद्धदादिरूपावच्छेदकधर्म दर्शनविषयविशिष्टेऽतिव्याप्तिवारणाय बाधत्वत्वादिप्रत्येकशरीरे वि. शिवयाघटितत्वादिनिवेशापेक्षया ताहशसकलदोषवारणायैकवि शिष्टद्वयाघोटतस्वघटितविशेष्यदलोपादानस्यैव युक्तत्वम् न च बाधत्वत्वादिप्रत्यकशरीरे विशिष्टद्वयाघटितत्वं म निवेश्यते येन गौरवं स्यादपितु स्वपदार्थ एव विशिष्टद्वयविषयताशुन्यप्रतीतिविषयतावच्छेदकत्व तावतच सर्वदोषाणाम्वारणादितिवाच्यं गगनवदभावोगगनाभावद्वयधिकरणनिरूपितवृत्तित्ववत्कालीनव. हिमाञ्जलादित्यत्रासाधारण्येव्याप्तः तादृशासाधारण्यत्वावच्छिन्नप्र. तीतेगंगनाभाववत्ताशवृत्तित्ववत्वावच्छिन्नविषयताविशिष्टताशवृ. त्तित्ववभावत्वावच्छिन्नविषयताशून्यत्वावरहात विशेष्यदलस्य त

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190