________________
सामान्यनिरुक्तिविवेचना
मितिचेन्न साजात्यघटकवाधत्वादिशरीरेऽव्याप्यवृत्तिस्वनमानास्क. न्दितत्वनिवेशे प्रयोजनाभावेन सामान्यतोऽव्याप्यवृत्तित्वज्ञानानास्कन्दितत्वस्यैव निविष्टत्वन वृक्षः कपिसंयोगीस्यत्र कपिसंयोगाभा. वघदक्षत्वे वाधवत्वस्य सत्तया तदवच्छिन्नेऽतिप्रसङ्गवारणाय वि शेष्यदललार्थक्यात् तत्र च निश्चयविशेषणतयाऽव्याप्यवृत्तिस्व. मानास्कन्दितत्वस्येव घटकतायाः प्रागुक्तत्वात् नच विशेष्यदल निवेशापेक्षया साजात्यघटकबाधत्वत्वादिशरीरे विशिष्याव्याप्यवृ. तित्वभ्रमानास्कन्दितत्वनिवेशस्य लघुत्वात् तदेव निवेशयितु मुचि. तमितिवाच्यं विशेष्यदले मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तौ तद्वारणाय विशेषणोपादानन्तत्तथैवोपादेयं यथा न विशेष्यदलक्षतिरन्यः थोपजीव्यविरोधादितिवाधत्वत्वादिशरीरे ऽव्याप्यवृत्तित्वभ्रमानास्क. न्दितत्वस्यानिशनीयत्वात् अव्याप्यवृत्तित्वभ्रमानास्कन्दितत्वादिघ. टितबाधत्वादिसहितरहितविशेप्यदलस्य लक्षणान्तरत्वन्तु को नाम निवारयितुमीष्ट ॥ अतएव विरोधिविषयताप्रयुक्तत्वप्रयुक्तगौरवं पुर स्कृत्य निर्वीजम्प्रतियोगिस्वत्वघटितविशेषणानुधावन्नोचितमित्यपा स्तम् विरोधविषयताप्रयुक्तत्वस्य विशेष्यदलघटकतया तद्वैपये विशे यस्वरूपहानावुपजीव्यविरोधापत्या प्रतियोगिस्वत्वमन्तर्भाव्यैव वि शेषणदलस्योपादेयत्वात् । किञ्च बाधत्वत्वव्यभिचारत्ववाद्येकैकशरी रेव्याप्यवृत्तित्वभ्रमानास्कन्दितत्वनिवेशे लक्षणशरीरे गुरुभूतानेकभ्र मत्वोपादानापेक्षयकभ्रमत्वघटितविशेष्यदलोपादानस्यैव युक्तत्वात्।
यतु वह्नयभाववज्जलवद्वृत्तिजलवद्धदादिरूपावच्छेदकधर्म दर्शनविषयविशिष्टेऽतिव्याप्तिवारणाय बाधत्वत्वादिप्रत्येकशरीरे वि. शिवयाघटितत्वादिनिवेशापेक्षया ताहशसकलदोषवारणायैकवि शिष्टद्वयाघोटतस्वघटितविशेष्यदलोपादानस्यैव युक्तत्वम् न च बाधत्वत्वादिप्रत्यकशरीरे विशिष्टद्वयाघटितत्वं म निवेश्यते येन गौरवं स्यादपितु स्वपदार्थ एव विशिष्टद्वयविषयताशुन्यप्रतीतिविषयतावच्छेदकत्व तावतच सर्वदोषाणाम्वारणादितिवाच्यं गगनवदभावोगगनाभावद्वयधिकरणनिरूपितवृत्तित्ववत्कालीनव. हिमाञ्जलादित्यत्रासाधारण्येव्याप्तः तादृशासाधारण्यत्वावच्छिन्नप्र. तीतेगंगनाभाववत्ताशवृत्तित्ववत्वावच्छिन्नविषयताविशिष्टताशवृ. त्तित्ववभावत्वावच्छिन्नविषयताशून्यत्वावरहात विशेष्यदलस्य त