Book Title: Samanyanirukti Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 168
________________ सामान्यनिरुकिविवेचना नमवद्रपावच्छिन्नत्वस्य हेत्वाभासलक्षणत्वे क गौरवमितिनिरस्तम् । विशिष्टान्तरायटिस्वघटितबाधत्वत्वाधुपादानेप्युक्तदोषघटितदोषवा. रणस्य दुरशक्यतया भक्षितेपि लशुन इत्यादिन्यायेन तस्यानुपादेय. स्वात्। __ तत्राव्याप्तिधारणाय विशिष्टान्तरादितत्वस्य रत्यिन्तरानुसरणे तद्रीतिमनुसृत्य सामान्यलक्षणोपपादनस्यैव लाघवेन कर्तुमुचित. तत्वात् साच रीतिः प्रतिबन्धकत्वगर्भनिरुक्तावतेनेत्यादिना प्रागु ता प्रतिबन्धकस्वाधटिते च विशिष्टान्तरविषयतात्वव्यापकरूपानव. च्छिन्नत्यादिना बयत एवञ्च विशिष्टान्तराघटितत्वेनाघटितव्यभि. चारस्वादिसत्त्वेनेत्यादिग्रन्थस्यापि सङ्गतिः । अन्यथा व्याभिचार. घटितवाधाव्याप्तिवारणायैव विशिष्टान्तराघटिवाधत्वत्वादेः साजा. त्यघटकतयोपादेयत्वेन तदसङ्गतिः स्यादिति । केचित्तु स वक्ष्यमाणोग्रन्थः प्रतियोगिस्वत्वग्रन्यलक्षणाभिप्रायः कः तस्यैवात्रानुसरणीयत्वस्य प्रागुक्तत्वात् प्रतियोगिस्वत्वघटितक. हपे च बाधत्वस्वादेर्विशिष्टान्तराघटितत्वघटितत्वे मेयत्वविशिष्टव्यः भिचारत्वादे स्वपदेनोपादेयत्वासम्भवादसम्भवप्रसङ्गादिति विशिष्टान्तराघटितत्वाघटितव्यभिचारत्वाद्यक्तिसङ्गतिरिति वदन्ति त विन्स्यम् ॥ अनुयोगिस्वत्वघटितकल्पे स्वसजातीयविक्षिष्टान्तरभिन्नत्व. स्य तारशरूपानवच्छिन्नप्रकारतावच्छेदकत्वस्य यत्र घटविषक शानं नियमतोमेयत्वविशिष्टव्यभिचारविषयकमेव तत्र घटेऽतिव्या तिप्रसङ्गायता अतएव प्रतियोगिस्वत्वघाटतेपि तारशस्वमिषत्वा. देहयत्वमवलेयम् ॥०॥ घटादेस्तादृशधर्मेण सजातीयाप्रसिध्यैवेति यद्यपि बाधत्वादिप्रत्येकशरीरे। विरोधिविषयताप्रयुक्तत्वनिवेशापेक्षया लघुभूतविरोधिविषयताप्र. युक्तत्वघटितविशेष्यदलोपादानमेव कर्तुमुचितं बाधत्वादिशरीरे विरोधिविषयताप्रयुक्तत्वाप्रवेशे घटादेस्साजातीयविशिष्टन्तरप्रसि. द्धया विशेष्यदले विरोधिविषयताप्रयुक्तत्वस्य तत्रातिव्याप्तिवारणाय सार्थक्याव तथापि निर्वह्निः पर्वतोवह्निमानित्यादौ वहिमपर्वते स्वसजातीयाविशिष्टान्तरवह्वयादिघाटतत्ववारणाय वाधाश्रयासिद्धि. त्वादिशरीरे विरोधिविषयताप्रयुक्तत्वप्रवेश आवश्यक इति घटादीनां

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190