Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 11
________________ सामाचारीशत कम् । ॥३॥ भंते ! सामाइअं सावजं जोगं पञ्चक्खामि दुविहं तिविहेणं जाव निअमं पज्जुवासामि ।' इत्यादि एवं सामायिकं कृत्वा ईर्ष्या प्रतिक्रान्तो वन्दित्वा पृच्छति पठति वा, स च किल सामायिकं कुर्वन् मुकुटं कुण्डले नाममुद्रां चाऽपनयति, पुष्पताम्बूलप्रावारादिकं च व्युत्सृजति, एष विधिः सामायिकस्येति ॥ ५ ॥ पुनः श्रीयशोदेवोपाध्याया अपि श्रीनवपदप्रकरणविवरणे प्रोचिवांसः । ( पृ० २४३ ) तथाहि त्रिविधेन साधून नमस्कृत्य तत्साक्षिकं सामायिकं पुनः करोति - 'करेमि भंते ! सामाइयं सावज जोगं पञ्चकखामि दुविहं तिविहेणं जाव ( साहु ) पज्जुवासामि' इत्यादि सूत्रमुच्चार्य तत ईर्यापथिकों प्रतिक्रमति आगमनं चालोचयति । तत आचार्यादीन् यथा रत्नाधिकतया अभिवन्द्य सर्वसाधून उपयुक्तोपविष्टः पठति, पुस्तकवाचनादि करोति, चैत्यगृहे तु यदि साधवो न भवन्ति, तदा ईर्यापथिकीप्रतिक्रमणपूर्वकं आगमनालोचनां विधाय चैत्यगृहे' वन्दनां करोति, ततः पठनादि विधसे । साधुसद्भावे तु पूर्व एव विधिः । एवम् पौषधशालायामपि केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति तथैव गमनविरहितं न चाssवश्यकं श्रावकस्य न सम्भवतीति वाच्यम्- "समणेण सावएणय अवस्सकाय हवइ जम्हा ।" इत्यादिवचनप्रतिष्ठितत्वात् अस्य मुखवस्त्रिका प्रत्युपेक्षणपूर्वं च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्यमिति । ऋद्धिप्राप्तस्तु चैत्यगृहं साधुमूलं वा मह वा इति येन लोकस्याssस्था जायते । चैत्यानि साधवश्च सत्पुरुषपरिग्रहेण विशेषपूज्यानि भवन्ति, पूजितपूज्यत्वात् लोकस्य, अतः तेन गृह एव सामायिकमादाय न गन्तव्यम्, अधिकरणभयेन हस्त्यश्वादिना अयतनाप्रसङ्गात्, आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभावस्तवेनाऽभिष्ट्रय यथासम्भवं 'साधु 6 पूर्व करेमि भंते 1 प'श्चात् इरि यावहियं | अधिकारः १ ॥ ३ ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 393