Book Title: Rushabh Shatak Author(s): Kalyankirtivijay Publisher: ZZ_Anusandhan View full book textPage 8
________________ स्थानं निर्गतिकस्य मेऽयमुचितो विश्वत्रयीनायकस्तस्थौ यत्क्रमयोर्वृषोऽङ्कमिषतो ध्यात्वेति वः सोऽवतात् ||१४|| अनुसंधान- २९ गौरस्यैव ममोपभोगसुभगा पुष्णात्यसावेव मां भूयोभिश्चरणैः स्थिती रसवरे हगोचरस्यैव मे । ध्यात्वैवं गतपङ्कमङ्कमभजन्त्रित्यं यदीयं वृषः पाथोराशिरिवैष रातु भवभीमुक्तः श्रियं मौक्तिकीम् ॥१५॥ यो(या) जाड्याम्बुजभञ्जने द्विपवधूगरस्य विश्वेशितुः सैवैनं जननीव शावमनिशं पुष्णाति पुण्याकृति: । तेनाऽत्रैव वृषोऽयमु [ च्च] सुगतिश्चिह्नच्छलादच्छलं यत्पादौ सृजतेति वारिजभुवा ध्यातं स्तुमस्तं जिनम् ॥ १६ ॥ विष्णोर्नीरधिनन्दनी कुमुदिनी नित्यं तुषारत्विषः पौलोमी च बिडौजसः कमलिनी भूच्छायविध्वंसिनः । युक्तोमाऽपि तथा प्रिया वृषधरस्यैवेति तद्वल्लभं यं चक्रे वृषलाञ्छनं जलजभूर्नाथः स वोऽस्तु श्रिये ॥१७॥ लोकेऽहं शिशुनाऽमुना प्रकटितो यूनाऽप्यहं पालितो वृद्धि वार्धकधारिणाऽतिशयतः संप्रापितः सर्वदा । तेन स्यामनृणोऽहमस्य चरणोपास्त्येति जानन् वृषो यत्पादाम्बुजयुग्ममङ्कमिषतो भेजे भजे तं जिनम् ॥१८॥ गोपालस्य गवां द्रुतं दशशती यत्तुण्डकुण्डोद्भवं रम्यं गोरसमत्ति दृग्जमहसांमित्रं पिबत्यन्वहम् । तेनैतत्पदयोर्मम स्थितवतो भावी स्वकैः सङ्गमो मत्वा गौरिति यत्क्रमेऽङ्कमिषतस्तस्थौ तमीशं स्तुमः ||१९|| [ गत्या ] येन जिता गतिप्रतिभटा हंसर्षभानेकपास्तन्मध्यात् प्रथमोऽगमत् सुरगृहं वन्यावन चाऽन्तिमः । कोपः स्यान्महतां प्रणत्यवधिको मत्वेति मध्योऽश्रयद् यत्पादौ ध्वजदम्भतः स जिनपः पुष्णातु वः सम्पदम् ||२०|| Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22