Book Title: Rushabh Shatak
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
13
August-2004
स्पर्धामाश्रितया सहात्मपतिना यः पर्यणैषीत् स्त्रियौ द्वे मात्राऽपि समर्पिते इव युवा वः पातु सोऽर्हद्गुरुः ॥२०॥ यं चेन्दं च विचिन्त्य चेतसि चिरं जैवातृकत्वात् समौ ब्राह्मयौ तत्कृतये विधिर्विहितवान् कन्ये उभे सन्निभे । एकं वीक्ष्य वलक्ष[पक्ष] युगलं शुक्लैकपक्षं परं तद्दत्तामुदुवाह यस्तदुभयीमप्येककः स श्रिये ॥२१॥ सूर्यं वीक्ष्य रजस्वलामपि सदा भुञ्जानमम्भोजिनींनित्यैकाम्बरचारिणं च दयितं दुःखै शं व्याकुलाम् । छायां गां च समागतामिनतया ख्यातस्त्रिलोकीपतिः स्त्रीरूपां परिणीतवान् सपदि यस्तं संमुगः(संस्तुमः) स्वामिनम् ॥२२।। मत्वा मामृषसं(भं) मदर्थमकरोद् गां स्पष्टमष्टश्रवा मां चेन्द्रं जयवाहिनीं जयकरीमेते च मामाश्रिते । नो लोकेशनिदेशलोप उचितश्चित्ते विचिन्त्येति यश्चक्रे द्रागुभयोस्तयोरुपयमं स्त्रीरूपयोः सोऽवतात् ॥२३॥ अस्त्यव्यस्तधनो महाव्रतिसुहृद् भर्तेष मद्देवरो मत्सख्योरमुना समं परिणये स्यात् तद्वियोगो न मे । मत्वैवं शिवया वशाद्वयमिषाद् द्वे एव ते ढौकिते य: स्वामी परिणीतवान् शिवसखः श्रेयःश्रिये सोऽस्तु वः ॥२४॥ नेता य: कलयाम्बभूव कमलां लोलेक्षणाभ्यां रतिप्रीतिभ्यामिव मन्मथो हरिकुलोल्लासी कलावत्सुहृत् । स श्रीनाभिनरेशवंशसरसोजन्माब्जिनीवल्लभः कान्त्या तप्तनवीनहेमविजयः पुष्णातु वः सम्पदम् ॥२५॥ श्रीऋषभशतकसरसी विविधालङ्कारकमलपरिकलिता । श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति ॥२६॥
॥ इति पण्डितश्रीकमलविजयशिष्यभुजिष्य-पं. हेमविजयगणिविरचिते श्रीऋषभशतके कन्याद्वयविवाहवर्णनो नाम द्वितीयः स्तवः सम्पूर्णः ॥
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22