Book Title: Rushabh Shatak
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
18
श्रेयस्वत्यनघे मम स्थितवत: कोडे पितुः शैशवे दत्ता (वा) ssदावपि यं हरि [वि] हितवानिक्ष्वाकुरित्यन्वयम् । दीक्षायामपि भुक्तिरत्र घटतो तानेव तावद् हृदि ध्यात्वेतीक्षुरसेन यः प्रविदधे प्राक् पारणं स श्रिये ॥ १ ॥
अनुसंधान - २९
आसीज्ज्येष्ठमिदं मदीयमनघं तीव्रं तपो वार्षिकं ज्येष्ठेनैव रसेन तेन घटते श्रीकारणं पारणम् । मत्वैवं मधुरेण यो विहितवानिक्षो रसेनाऽशनं वर्षान्ते वृषभः स रक्षतु जगत् संसारनीराकरात् ॥२॥ प्राग्जन्मार्जित [ विघ्न ] कर्मसमिधः संवत्सरो दुस्तरो जज्ञे ज्वालयतस्तपोहुतभुजा तीव्रांशुतीव्रेण मे । तत्तन्नो भविताऽमुनैव तुहिनः कायो मदीयो भृशं मत्वेतीक्षुरसं पपौ प्रथमके यः पारणे तं स्तुवे ||३||
अन्यन्मत्तपसो तपो भगवतां भावि त्रयोविंशतेस्तत् प्राक् पारणकेऽपि भिद् भवतु मे मत्वेति तत्पारणे । पौरस्त्ये परमान्नमेव कलयन्नब्दान्त आदीश्वरचोक्षेणेक्षुरसेन तत्प्रविदधे यः पारणं तं स्तुमः || ४ ||
आद्यः क्षोणिभृतामयं व्रतवतामाद्यस्तथैवाऽर्हतामाद्यः पारणमाद्यमुग्रतपसः पौण्ड्रस्तथाऽऽद्ये (द्यो ) रसः । सर्वेष्वेष रसेषु तद्भगवतोऽनेनैव भुक्तिः शुभा श्रेयांसेन धियेति ढौकितमपाद् यस्तं स्तुमस्तं जिनम् ॥५॥ पूर्वं पावकपक्वमोदनमसौ नाऽस्ति स्म वेश्मस्थितो दीक्षायामपि पारणे प्रथमके स्तादेवमेव ध्रुवम् । श्रेयांसेन वितीर्णमैक्षवरसं ध्यात्वेति धन्यात्मना यः प्रीतः पिबति स्म पुण्यपदवीपान्थः प्रभु पातु सः ||६||
सद्गाम्भीर्यरसेशतातिशयतोऽनेनाऽस्म्यहं निर्जितो
मा भूयोऽपि बली पराभवतु मामेषोऽधुनेत्यब्धिरी ( ? ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22