Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu Author(s): Harinarayan Aapte Publisher: Anandashram Mudranalay View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आदर्शपुस्तकोल्लेखपत्रिका। अथानयोर्धन्वन्तरीयनिघण्दुराजनिघण्ट्वोः शोधनसमये येषां पुस्तकानि संस्करणार्थ गृहीतानि तेषां नामग्रामनिर्देशः पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते(क.) इति संज्ञितम्-पुस्तकं वे० शा०रा०रा० 'गोरे' इत्युपनामकानाम् "विठ. लात्मज नारायण शास्त्री हिन्दळेकर" इत्येतेषामस्ति । अस्य लेखनशकाब्दाः १७०३ । अस्मिन्पुस्तके धातूनां शोधन मारणकर्म व्याख्यातम् । परं चैकार्थद्यर्थादिवर्गो न दृश्यते । (ख.) इति संज्ञितम्-पुस्तकं बापट इत्युपनामकानां वे० शा० रा. रा. गोपा लशास्त्रिणाम् । १५३६ संवत्सरे मार्गशीर्षे मासे शुक्लपक्षे तृतीयायां रविवासरे ( दमण )दवाणापूरनगरे ' साण्डोरकरेत्युपाहरणच्छोडात्मजशिवरामनाईक' इत्येषामुपयोगार्थ 'माधवजी गणपतनी ' इत्यनेन लिखितमेतत्पुस्तकम् । धातूनां शोधनं मारणं च नात्र व्याख्यातम् । तथैवैकार्थद्य र्थादिवर्गोऽपि न दृश्यते । (ग.) इति संज्ञितम्-एतत्पुस्तकं 'कृष्णाजी विनायक बापट' इत्येतेषाम् । अस्ति तत्र लिखितं १७२९ संवत्सरे प्रभवे फाल्गुनशुद्धप्रतिपत्तिथौ रामचन्द्रसूनुना बल्लालचक्रदेवेन लिखितमिति । अस्मिन्पुस्तके गणद्रव्यावलिस्तथैकार्थद्वयर्थादिवर्गो न दृश्यते । तद्वद्धातूनां शोधनं मारणं च न दृश्यते । (प.) इति संज्ञितम्-आचार्योपनामकानां वे० रा. रा. 'कृष्णात्मजपुरुषो त्तम' इत्येषां पुस्तकमेतत् । लेखनकालः १७०३ । अस्मिन्पु स्तके धातुशोधनमारणादिकथनं न दत्तम् । (रु.) इति संज्ञितम्-पुस्तकमेतत् ' आडघरे वैद्य ' इत्येषाम् । शके १७७९ संवत्सरे माघे मासे शुक्लचतुर्थ्यां पुण्यपत्तने लिखितम् । अस्मिन्पुस्तके गणद्रव्यावलिस्तथैकार्थद्वयादिवर्गो नास्ति । धातुशोधनमारणमस्मिन्पुस्तके दत्तम् । (प.) इति संज्ञितम्-वे. शा० रा. रा. गोपाळशास्त्री बापट' इत्येते For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 619