Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ आम्रादिः५ पञ्चमो वर्गः] राजनिघण्टुसहितः।
अथ करवीरादिश्चतुर्थो वर्गः ॥४॥ करवीरस्त्वेडगजो धत्तूरो लाङ्गली तथा । भृङ्गार्कपुष्पकाकाह्वामूलकं शिग्रुसर्षपौ ॥ १॥ भूतिः सुरसजम्बीरं कुठेरः सुमुखासुरी । एभिः सुतक्रसौवीरैर्दट्ठमण्डलतां जयेत् ॥२॥ सिध्मातिपामापिटकाकृमिकुष्ठानि नाशयेत् । एभिर्गोमूत्रससिद्धं कटुतैलं विपाचयेत् ॥ ३ ॥ काण्डरीजलपिप्पल्यो रसोनो गृञ्जनं तथा । पलाण्डुद्रुमश्चैव योज्यं कृमिविनाशनम् ॥ ४ ॥ कदलीसिन्दुवारौ च निर्गुण्डी गिरिकर्णिका । जन्तुकारा च पद्मा च वाराही मांसरोहिणी ॥५॥ वन्दकाऽऽदित्यकान्ता च नाकुल्यौ वृद्धदारुकः । रक्तपायौ शङ्खपुष्पी तेन्दुली कासमर्दकः ॥ ६ ॥ पिष्टैस्तु बस्तसूत्रेण योज्यमेतद्दे ज्वरे । नस्ये धूमप्रयोगेषु सर्वभूतग्रहापहम् ॥ ७॥ उन्मादमोहज्वरकृच्छूलूताजलाग्निचोरोरगवृश्चिकादीन् । उपद्रवानेष विषाणि हन्ति स कृत्रिमस्थावरजङ्गमानि ॥ ८ ॥ इक्षवस्त्रिविधाः काशो दभी द्वौ च शरस्तथा । वंशो नलश्च दूर्वा च श्वेतनीलारुणोत्पलम् ॥ ९ ॥ पद्मिनी पद्मवीजं च मृणालं मूलकेसरम् । एतद्धि रक्तपित्तोत्थे विकारे परमं हितम् ॥ १० ॥
करवीरादिको वर्गश्चतुर्थः समुदाहृतः ॥ नानाव्याधिप्रशमनो नानाद्रव्यसमाश्रयः ॥ ४ ॥
॥ इति करवीरादिश्चतुर्थों वर्गः ॥ ४ ॥
अथाऽऽम्रादिः पञ्चमो वः ॥ ५ ॥ आम्राम्रातकजम्बीरं नारङ्गं बीजपूरकम् । आम्लिकारुकभव्यानि तिन्दु कश्च विकङ्कतम् ॥ १॥ मधुकं पीलु खजूरं द्राक्षाक्षोडपरूषकम् । तूलं पालेवतं तालं प्रियालं नारिकेरकम् ॥ २॥ वटाश्वत्थप्लक्षजम्बूदुम्बरं फल्गु क्षीरिणी । श्लेष्मातकः शमी कोलं करीरं करमर्दकम् ॥३॥ एषां फलानि हृयानि यथाकालतुकानि च । समाहृत्य प्रयोज्यानि बलवर्णाग्निवृद्धये ॥ ४ ॥ कदम्बो द्वौ करञ्जौ च शिरीपार्जुनवेतसाम् । वरुणः शिशपा सर्जः शाल्मली मुष्ककोऽरिमः ॥५॥ एषां पयः प्रविष्टानि वल्कलानि च योजयेत् । विसर्पव्रणरुग्दाहशोफार्तानां प्रशान्तये ॥ ६ ॥ मल्लिकावार्पिकाजातीवासन्तीगृष्मच
१ क. भूत: सर । छ. भूतीसु। २ क. रैरङ्गमुद्वर्तनं भवेत् । ३ क. तण्डुली । ४ छ. इक्षयः क्षुरकः शाको दी द्वौ द्वौ शरस्तथा । ५ क. स. ले पाके । ६ क. व. "न्दुक सविक तथा । ७ क. 'केलकम् । ८ ख. 'म्वतम्बरं क्षीरणिस्तथा । १ घ. बलवर्ण कराणि च । १.. ध. तसः । व। ११ क.शपाः स।
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 619