Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३] ७. अस्य ग्रन्थस्योद्घाटनमेवम् अस्मिन्मन्थे गणद्रव्यावल्यां यानि यानि द्रव्याणि कथितानि तानि तानि स्थूलाय. साक्षरैरादावर्धचन्द्ररेखावकाशस्थितक्रमसंख्याभिलिखितानि( )। तथैव तेषामुपभेदा मध्यमायसाक्षरैरन्ते क्रमसंख्याभिरेव दर्शिताः । यथा-'हरितालम्'-॥२॥ इति । यानि द्रव्याणि गणद्रव्यावल्यां नोक्तानि परं च यस्मिन्वर्गे पुस्तकेषु दृश्यन्ते तस्मिन्नेव वर्गे 'वर्गेतरप्रकरणे' दत्तानि । राजनिघण्टुस्थितद्रव्याणि धन्वन्तरीयनिघण्टौ तेषां वर्गानुसारेण यथायोग्यस्थले मया लिखितानि । अपरं च राजनिघण्टुस्थितान्यवशिष्टद्रव्याण्यस्य ग्रन्थस्य परिशिष्टप्रकरणे यथावद्वर्गे लिखितानि । ८. राजनिघण्टौ धन्वन्तरीयनिघण्टुस्थितानि यानि यानि वचनानि दृष्टानि तानि तानि तत्र तत्रैवान्ते तारकितानि चिह्नः (*)। परं च धन्वन्तरीयनिघण्टौ तानि समालिख्याऽऽदिभागे चिद्वैस्तारकितानि । ___९. अस्य ग्रन्थस्यान्ते निघण्टुद्वयस्थनिखिलशब्दानामकारादिक्रमेण वर्णानुक्रमणिका तथा संस्कृतमहाराष्ट्रीयकर्नाटकगुर्नरहिन्दील्याटिनाङ्लबङ्गालीयभाषासु द्रव्याभिधानानि च वर्णानुक्रमेण संयोजितानि । १०. आदर्शपुस्तकवाचनेषु वेदमूर्तिवैद्यवासुदेवात्मजकेशवेन 'आचार्योपाहचिन्तामण्यात्मजभास्करेण च मम साहाय्यं कृतम् । अत एव तावप्यत्राहं संभावयामि । ११. अथ प्रस्तावनाया इतिकरणात्प्रागस्ति मे विज्ञप्तिर्यथा प्रमादामाद्वैयाकरणरीतिसंभ्रमाद्वा ग्रन्थस्थितान्दोषान्सर्वथा क्षन्तुमर्हन्त्येव दयावान्ता विद्वज्जनास्तयथा श्रूयते "वैयाकरणकिरातादपशब्दमृगाः क यान्ति संत्रस्ताः। यदि नटगणकचिकित्सकवैतालिकवदनकन्दरा न स्युः" इति । तथा चायं ग्रन्थः शब्दकोशसंनिभोऽस्ति । अत एव श्रीतारानाथतर्कवाचस्पतिभट्टाचार्यैः सम्यग्भणितमस्ति । यथा-" बहुच्छिद्रं परित्यज्य गुणलेशजिघृक्षया । परिगृह्णन्त्वदो विज्ञा ऋजवो दम्भवर्जिताः" ॥ अपि च-"इन्द्रादयोऽपि यस्यान्तं न ययुः शब्दवारिधेः। प्रक्रियां तस्य कृत्स्नस्य क्षमो वक्तुं नरः कथम्" इति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 619