Book Title: Pundarik Shikhari Stotra
Author(s): M A Dhaky
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 9
________________ ૪૨ Jain Education International સં મધુસૂદન ઢાંકી श्रीपुण्डरीकशिखरिस्तोत्रम् (श्रीशत्रुञ्जयचैत्यपरिपाटी) ( वसन्ततिलका) नम्रन्द्रमण्डलमणिमयमौलिमाला मीलन्मरीचिचयचुम्बितपादपीठम् । नत्वा युगादिजिनमादिमतीर्थराजं शत्रुञ्जये गिरिपतिं प्रयतः स्तवीमि ॥१॥ पुण्यं चिनोति नरजन्मफलं तनोति पापं लुनाति नयनानि सतां पुनाति । दूरेऽपि दर्शनपथं समुपागतो यः श्रीमानसौ विजयतां गिरिपुण्डरीकः ||२|| श्रीपादलिप्तपुरपावन पार्श्वनाथ श्रीवर्धमानजिनराजयुगं नमन्ति । नेमीश्वरं च भविका यदधोविभागे श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ ३॥ श्रृड्गं च यस्य भविका अधिरूढवन्तः प्रासादपङ्क्तिममलामवलोकयन्तः । लोकोत्तरं किमपि सौख्यमहो ! लभन्ते श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥४॥ लक्षत्रयीविरहिता द्रविणस्य कोटी स्तिस्रो विविच्य किल वाग्भटमन्त्रीराजः । यस्मिन्युगादिजिनमन्दिरमुद्दधार' श्रीमानसी विजयतां गिरिपुण्डरीकः ||५|| कर्पूरपूरधवला किल यत्र द्रष्टा मूर्ति: प्रभोजिनगृहे प्रथमप्रवेशे । सम्यग्दृशाममृतपारणमातनोति' श्रीमानसी विजयतां गिरिपुण्डरीकः ॥ ६ ॥ श्रीमूलनायकजिनः प्रणतः स्तुतो वा संपूजितश्च भविकैर्भवकोटिबद्धम् । यत्रोच्छिनत्ति सहसा किल कर्मजालं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥७॥ For Private & Personal Use Only Nirgrantha www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13