Book Title: Pundarik Shikhari Stotra
Author(s): M A Dhaky
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
View full book text ________________
Vol. 1-1995
Jain Education International
શ્રી પુંડરીકશિખરિસ્તોત્ર અપરનામ...
अष्टोत्तरे च किल वर्पशते व्यतीते श्रीविक्रमादथ बहुद्रविणव्ययेन । यत्र न्यवीविशत् जावडिरादिदेवं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥८॥
मम्माणनाममणिशैलतटीसमुत्थ
ज्योतीरसाख्यवररत्नमयश्च यत्र । दृश्योप्यपूर्व इव भाति युगादिदेवः
श्रीमानसौ विजयतां गिरिपुण्डरीकः ||९||
यत्रार्चिते भगवतीह करौ कृतार्थी
वाणी स्तुते च सफला प्रणते च भालम् । द्रष्टव्यदर्शनफले नयने च दृष्टे
श्रीमानसी विजयतां गिरिपुण्डरीकः ||१०||
यत्रादिमो भगवतः किल दक्षिणाङ्गे
बामे च जावडिनिवेशितमूर्तिरन्यः । श्रीपुण्डरीकयुगलं भवभीतिभेदि '
श्रीमानसी विजयतां गिरिपुण्डरीकः ॥११॥
यत्राद्यदेवगृहदक्षिणबाहुसंस्थं
श्री पार्श्वनाथभवनं समरागरस्य । पुण्यप्रकर्षमिवविश्वकृतः प्रमोदं
श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१२॥
इक्ष्वाकु-वृष्णिकुलजामुनिकोटिकोट्यः
संख्यातिगाः शिवसुखनियमत्र भेजुः । इत्याह यत्र तिलकं किल कोटिकोट्यः
श्रीमानसौ विजयतां गिरिपुण्डरीकः ||१३|| चन्द्रानन - प्रभृतिनित्यजिनान्वितानां
सद्विशतेर्विहरतां जिनपुङ्गवानाम् । यत्रोच्चकैर्भुवनमस्ति निरस्तदोषं
श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१४॥ पञ्चापि पाण्डुतनया सहिता जनन्या
कुन्ताख्यया शिवमगुः शिखरे यदीये । तन्मूर्त्तय: षडिति शासति यत्र लेप्या: " श्रीमानसी विजयतां गिरिपुण्डरीकः ॥ १५ ॥
For Private & Personal Use Only
४३
www.jainelibrary.org
Loading... Page Navigation 1 ... 8 9 10 11 12 13