Book Title: Pundarik Shikhari Stotra
Author(s): M A Dhaky
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 11
________________ ४४ સં. મધુસૂદન ઢાંકી Nirgrantha यत्र प्रियालुरिति चैत्यतरुचिरंत: श्रीसंघपुण्यमहिमाद्भत दग्धवर्षाम् ।' शस्तं समस्त्यनुपमाख्यसरोवरं च श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१६॥ श्रीपादुकां भगवतः प्रणिपत्य यत्र भालस्थले तिलकिता नखजैर्मयूखैः । भव्या भवन्ति सुभगाः शिवसौख्यलक्ष्म्याः । श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१७॥ हिंसाजुषोऽपि पशवोऽपि मयूरमुख्या: स्पृष्ट्वा यदीयशिखरं परिपूतदेहाः । आस्वादयंते तरसा सुरसंपदोऽपि श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१८॥ द्वाविंशतिर्जिनवरा अजितादयस्ते स्वस्वप्रभान्वितसपादुकलेप्यबिम्बैः । अत्रैयरुः श्रुतिमति द्रढयन्ति यत्र श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१९॥ वामे च पार्श्व इह सत्यपुरावतार: स्याद् दक्षिणे शकुनिकाङ्कितः सद्विहारः। अष्टापदो भगवतः किल यत्र पृष्ठे श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२०॥ नन्दीश्वरस्य गिरिनारगिरीश्वरस्य श्रीस्तम्भनस्य भविका अवतारतीर्थम् । संवीक्ष्य यत्र परमां मुदमुवहन्ति श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२१॥ स्वर्गाधिरोहभवने जगतां कृपालु यंत्र प्रभुर्विनमिना नमिना च सेव्यः । तत्खा बिम्बनकृताऽपररूपयुग्म: श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२सा श्रीषोडशो जिनपति: प्रथमो जिनेश: श्रेयांसनेमिजिनवीरजिनेन्द्रमुख्याः । श्रृङ्गं द्वितीयमिह यत्र पवित्रयन्ति श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13