________________
૪૨
Jain Education International
સં મધુસૂદન ઢાંકી
श्रीपुण्डरीकशिखरिस्तोत्रम् (श्रीशत्रुञ्जयचैत्यपरिपाटी)
( वसन्ततिलका)
नम्रन्द्रमण्डलमणिमयमौलिमाला
मीलन्मरीचिचयचुम्बितपादपीठम् । नत्वा युगादिजिनमादिमतीर्थराजं शत्रुञ्जये गिरिपतिं प्रयतः स्तवीमि ॥१॥
पुण्यं चिनोति नरजन्मफलं तनोति
पापं लुनाति नयनानि सतां पुनाति ।
दूरेऽपि दर्शनपथं समुपागतो यः
श्रीमानसौ विजयतां गिरिपुण्डरीकः ||२||
श्रीपादलिप्तपुरपावन पार्श्वनाथ
श्रीवर्धमानजिनराजयुगं नमन्ति । नेमीश्वरं च भविका यदधोविभागे
श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ ३॥
श्रृड्गं च यस्य भविका अधिरूढवन्तः
प्रासादपङ्क्तिममलामवलोकयन्तः । लोकोत्तरं किमपि सौख्यमहो ! लभन्ते
श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥४॥ लक्षत्रयीविरहिता द्रविणस्य कोटी
स्तिस्रो विविच्य किल वाग्भटमन्त्रीराजः । यस्मिन्युगादिजिनमन्दिरमुद्दधार'
श्रीमानसी विजयतां गिरिपुण्डरीकः ||५||
कर्पूरपूरधवला किल यत्र द्रष्टा
मूर्ति: प्रभोजिनगृहे प्रथमप्रवेशे । सम्यग्दृशाममृतपारणमातनोति'
श्रीमानसी विजयतां गिरिपुण्डरीकः ॥ ६ ॥ श्रीमूलनायकजिनः प्रणतः स्तुतो वा
संपूजितश्च भविकैर्भवकोटिबद्धम् । यत्रोच्छिनत्ति सहसा किल कर्मजालं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥७॥
For Private & Personal Use Only
Nirgrantha
www.jainelibrary.org