Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 70
________________ निवासः सूर्यपुत्रस्य, भूमिपुत्रोच्चताकरः । मकरो दक्षिणासंस्थः, संस्थामीतिं विहन्तु नः ।।१०।। ॐ नमो मकराय मकर इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ।।१०।। ॐ रां मकरः संतर्पितोऽस्तु स्वाहा | १० | कुंभं प्रति ग्रहेशतनयस्थानं, पश्चिमानन्ददायकः । कुंभः करोतु निर्दभं, पुण्यारम्भं मनीषिणाम् ।।११।। ॐ नमः कुंभाय कुंभ इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ||११|| ॐ रां कुंभ: संतर्पितोऽस्तु स्वाहा | ११ | मीनं प्रति कवेरुच्चत्वदातारं, क्षेत्रं सुरगुरोरपि । वन्दामहे नृधर्माशा-, पावनं मीनमुत्तमम् ||१२|| ॐ नमो मीनाय मीन इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ।। १२ ।। ॐ रां मीनः संतर्पितोऽस्तु स्वाहा | १२ | परिपन्डित : ॐ मेष वृष मिथुन कर्क सिंह- कन्या- तुला- वृश्चिक धनु मकर- मीनाः सर्वे राशयः स्वस्वस्वाम्यधिष्ठिता इह शान्तिकपूजामहोत्सवे आगच्छन्तु २, इदमर्ध्यं पाद्यं बलिं चरुम् आचमनीयं गृह्णन्तु २, सन्निहिता भवन्तु २ स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीपं, नैवेद्यं, सर्वोपचारान्० गृ० २, शान्तिं, तुष्टिं पुष्टिं, ऋद्धि, वृद्धिं, सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा ।। ६६

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108