Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 97
________________ ।। अथ श्रीशान्तिदण्डकः ।। नमः श्रीशान्तिनाथाय, सर्वलोकप्रकृष्टाय, सर्ववांछितदायिने ।।१।। इह हि भरतैरावतविदेहजन्मनां, तीर्थंकराणां जन्मसु चतुःषष्टिसुरासुरेन्द्राश्च चलितासना विमानघंटाटंकारक्षुभिताः प्रयुक्तावधिज्ञानेन, जिन- जन्म - विज्ञान - परमतम- प्रमोद - पूरिताः मनसा नमस्कृत्य जिनेश्वरं सकलसामानिकां-गरक्ष-पार्षद्य त्रयस्त्रिंशल्लो कपाला-नीकप्रकीर्णकाभियोगिक-सहिताः साप्सरोगणाः सुमेरुशृंगमागच्छन्ति, तत्र च सौधर्मेन्द्रेण विधिना करसंपुटानीतांस्तीर्थकरान् पांडुकंबला-तिपांडुकंबला - रक्तकंबला ऽतिरक्तकंबलाशिलासु, न्यस्त-सिंहासनेषु, सुरेन्द्रक्रोडस्थितान् कल्पित-मणि- सुवर्णादिमययोजनमुख-कलशोद्गत- स्तीर्थवारिभिः स्नपयन्ति, ततो गीत-नृत्य- वाद्य महोत्सवपूर्वकं शान्तिमु द्घोषयन्ति ततस्तत्कृतानुसारेण वयमपि तीर्थकर - स्नात्रकरणानन्तरं शान्तिमुद्घोषयामः सर्वे कृतावधानाः सुरासुरनरोरगाः शृण्वन्तु स्वाहा । ॐ अर्हं नमो नमो जय जय पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तो विमलकेवलास्त्रिलोकपूज्या - स्त्रिलोकोद्योतकरा महातिशया महानुभावा महातेजसो महापराक्रमा महानन्दाः । C3

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108