________________
।। अथ श्रीशान्तिदण्डकः ।। नमः श्रीशान्तिनाथाय, सर्वलोकप्रकृष्टाय, सर्ववांछितदायिने ।।१।।
इह हि भरतैरावतविदेहजन्मनां, तीर्थंकराणां जन्मसु चतुःषष्टिसुरासुरेन्द्राश्च चलितासना विमानघंटाटंकारक्षुभिताः प्रयुक्तावधिज्ञानेन, जिन- जन्म - विज्ञान - परमतम- प्रमोद - पूरिताः मनसा नमस्कृत्य जिनेश्वरं सकलसामानिकां-गरक्ष-पार्षद्य त्रयस्त्रिंशल्लो कपाला-नीकप्रकीर्णकाभियोगिक-सहिताः साप्सरोगणाः सुमेरुशृंगमागच्छन्ति, तत्र च सौधर्मेन्द्रेण विधिना करसंपुटानीतांस्तीर्थकरान् पांडुकंबला-तिपांडुकंबला - रक्तकंबला ऽतिरक्तकंबलाशिलासु, न्यस्त-सिंहासनेषु, सुरेन्द्रक्रोडस्थितान् कल्पित-मणि- सुवर्णादिमययोजनमुख-कलशोद्गत- स्तीर्थवारिभिः स्नपयन्ति, ततो गीत-नृत्य- वाद्य महोत्सवपूर्वकं शान्तिमु द्घोषयन्ति ततस्तत्कृतानुसारेण वयमपि तीर्थकर - स्नात्रकरणानन्तरं शान्तिमुद्घोषयामः सर्वे कृतावधानाः सुरासुरनरोरगाः शृण्वन्तु स्वाहा ।
ॐ अर्हं नमो नमो जय जय पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तो विमलकेवलास्त्रिलोकपूज्या - स्त्रिलोकोद्योतकरा महातिशया महानुभावा महातेजसो
महापराक्रमा महानन्दाः ।
C3