Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan
________________
- सा शान्तिरत्र भूयात्, सर्वसुखोत्पादनाहेतुः ।।२।। अत्र च गृहे सर्वसंपदागमनेन, सर्वसंतानवृद्धया, सर्वसमीहितद्धया, सर्वोपद्रवनाशेन मांगल्योत्सव-प्रमोद-कौतुक-विनोद-दानोद्भवेन शान्तिर्भवतु । भ्रातृ-पत्नी-मित्र-संबंधिजन-नित्य-प्रमोदेन शान्तिर्भवतु। आचार्योपाध्याय-तपोधन-तपोधनी-श्रावक-श्राविकारुप-संघस्य शान्ति र्भवतु ।
सेवक-भृत्य-दास-द्विपद-चतुष्पद-परिकरस्य शान्ति र्भवतु.
अक्षीणकोश-कोष्ठागार-जलवाहनानां नृपाणांशान्ति र्भवतु । श्रीजनपदस्य शान्तिर्भवतु, श्रीजनपदमुख्याणांशान्तिर्भवतु. श्रीसर्वाश्रमाणांशान्तिर्भवतु, पुरमुख्याणां शान्तिर्भवतु, राजसन्निवेशानां शान्तिर्भवतु, धन, -धान्य-वस्त्र, हिरण्यानां शान्तिर्भवतु, ग्राम्याणां शान्ति र्भवतु । क्षेत्रिकाणांशान्तिर्भवतु, क्षेत्राणां शान्ति र्भवतु ।
सुवृष्टाः सन्तु जलदाः, सुवाताः सन्तु वायवः ।
सुनिष्पन्नास्तुपृथिवी, सुस्थितोऽस्तुजनोऽखिलः ।।१।। ॐ तुष्टि-पुष्टि-ऋद्धि-वृद्धि-सर्वंसमीहित-वृद्धि भूयात् ।
शिवमस्तु सर्वजगतः परिहतनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवन्तु लोकाः ।।१।।
Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108