Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

View full book text
Previous | Next

Page 89
________________ स्निग्धं मृदु पुष्टिकर, जीवनमतिशीतलं सदामिख्यम् । जिनमतवद्धृतमेतत्, पुनातु लग्नं जिनस्नात्रे ।।३।। ઈક્ષરસના કળશો લઈને मधुरिमधुरिणविधुरित-,सुधाधराधार आत्मगुणवृत्या । शिक्षयतादिक्षुरसो, विचक्षणौघं जिनस्नात्रे ।।४।। શુદ્ધ જળના કળશો લઈને जीवनममृतं प्राणदमकलुषितमदोषमस्तसर्वरुजम् । जलममलमस्तु तीर्थाधिनाथबिम्बानुगे स्नात्रे ||५|| સહસ્ત્રમૂલિકામિશ્રિત જળના કળશો લઈને विघ्नसहस्रोपशमनं सहस्रनेत्रप्रभावसद्भावम् । दलयतु सहस्रमूलं शत्रुसहस्रं जिनस्नात्रे ||१|| શતમૂલિકામિશ્રિત જળના કળશો લઈને शतमर्त्यसमानीतं, शतमूलं शतगुणं शताख्यं च । शतसंख्यं वांछितमिह, जिनाभिषेके सपदि कुरुतात् ।।१।। સર્વોષધિમિશ્રિત જળના કળશો લઈને सर्वप्रत्यूहहरं, सर्वसमीहितकरं विजितसर्वम् । सौषधिमंडलमिह, जिनाभिषेके शुभं ददताम् ।।१।। ધૂપ લઈને ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः क्षितिरुहरसजः क्षीणपापावगाहः । धूपोऽकूपारकल्पः प्रभवमृतिजराकष्टविस्पष्टदुष्टस्फूर्जत्संसारपाराधिगममतिधियां विश्वभर्तुः करोतु ।। ततः शक्रस्तवपाठः ।

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108