Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० कल्पार्थबोधिनी सम्पादकीयवक्तव्यम् ॥२॥ प्रभुनिर्वाणतिविरमावास्या पाक्षिकदिनमिति प्रसङ्गेन विहितायां टिप्पनीगतपाक्षिकचर्चायामप्यनेकैः सर्वमान्यप्राधीनशाचप्रमाणैर्निर्धायें प्रदर्शितं, यदुत- आदितः पञ्चदश्यामेव पाक्षिकं प्रतिक्रमणमभूत्, परं कालकसूर्याचरणया चतुर्थीपर्युषणाप्रवृत्त्यनन्तरमेव पञ्चाशदिनानां परिपूर्तये नियमितं चतुर्दश्यां तत्करणं प्राचीनाचायः, अन्यथा पाक्षिक-चातुर्मासिकयोरैक्यकरणं सार्वीयाज्ञोत्तीर्णमेव स्यात् ।। ___एतेन साम्प्रतं चतुर्दशी-पञ्चशीक्षये प्रयोदश्यां पाक्षिकं चातुर्मासिकं च, चतुर्थी-पञ्चमीक्षये च तृतीयायां सांवत्सरिक प्रतिक्रमण स्फुटमागमाचरणोभयोत्तीर्ण, एवमेव पञ्चदशी-पञ्चमीवृद्धौ युगप्रधानाचरितां सूर्योदयान्वितां चतुर्दशी-चतुर्थी च विहायाद्यायां सम्पूर्णभोगायां पञ्चदश्यां पञ्चम्यां च पाक्षिक चातुर्मासिके सांवत्सरिकं च प्रतिक्रमणं स्पष्टमेव युगप्रधानाचरणभजनमित्वपि सम्यक्साधितम् । | सामाचार्या (वृत्ती टिप्पन्यामपि च) सुष्टु विहिता अधिकमासीयाऽपि चर्चा, सम्यक्तया साधितं बृहस्कल्पचूर्णि-निशीथचूर्णि-कुलमण्डनाचार्यकृतकल्पावचूर्यादिवचनैः श्रावणभाद्रपदान्यतरवृद्धावपि पञ्चाशतेव, न त्वशीत्या दिनैर्युक्तं संवत्सरप्रतिक्रान्त्यादिसांवत्सरिककृत्यविशिष्टगृहिज्ञातपर्युषणापाराधनमिति, नूतनमेवैतचैत्यवास्युपर्श कालचूलारूपाधिकमासाविवक्षणमतमित्यपि बृहत्कल्पचूादिसर्वाभिमताभियुक्तशास्त्रप्रमाणैस्नेकैश हेतुष्टान्तैः सम्यनिर्णीतम् ।। इत्याद्यनेकेषु विवादास्पदीभूतेषु विषयेषु सागरान्तवृषकल्पैः प्रयुक्तानामनेकविधानां शास्त्रोत्तीर्णयुक्तीनां शास्त्रानुगतयुक्तियुक्तप्रत्युत्तरप्रदानप्रभविष्णुताऽवातावियं सहायिका प्रसङ्गानुगतनानासुभाषितसङ्ग्रहेण वाचकानां श्रोतृणामपि चापूर्वरसोत्कर्षपोषिकाऽपि च भविष्यतीति विभाव्य विहितं प्रकाशनमतस्याः । सर्वजीवैः सह क्षमापनाकरणादिना कर्मविच्छेदनाय नियमितेषु पर्युषणादिनेषु किं प्रयोजनं विवादग्रस्तानां विषयाणां चर्षया इत्याधगम्यैः कारणैर्यद्यपि नोद्भाविता विवादास्पदविषयीया युक्तयः कल्पकतादिषु, परं कालानुभावात्यायो भूयाञ्जनो विद्यमानेऽपि भूयस्यप्यन्तरेऽभेदमेव मन्यते, नैतावन्मात्रमेव, किन्तु प्रतिवर्ष प्रतिस्थलं चाकर्ण्यमानः पक्षान्तरीयवृत्तिगतैर्युक्त्याभासैः सन्दिग्धोऽपि भूयाअनो भवति, स तावदनया युक्तिलेशं निशम्य जानातु तत्त्वमित्यनुकम्पया "शुमे यथाशक्ति यतनीय"मिति शिष्टोपदेशमनुसृत्य विहितोऽयं प्रयतो यथाशक्यटिप्पन्यादिभिः परिष्कृत्यास्याः प्रकाशने।। _महदनुग्रहो विहितः परमाराध्याचार्यप्रवर-श्रीमजिनरवरिवरैः सर्वप्रकारेण सहयोगप्रदानतोऽस्याः सम्पादने संशोधनेऽपि चानुष्ठितं महत्साहाय्यं परमपूज्य-परमोपास्यश्रीमल्लब्धिमुनिपाठकप्रवरैः श्रीमद्भद्रमुनिभिश्च, निर्णयसागरमुद्रणालयसकैः पण्डितप्रकाण्डैः काव्यतीर्थोपपदैः 'श्रीनारायण राम आचार्य' इति सुनामधेयैश्वापि प्रूफसंशोधनेऽनेकशी योग्यसूचनाकरणादिना, अतस्तेषां सर्वेषामुपकार सर्वदा स्मृतिपथमानयामि । X ॥२ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 435