Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका कल्पदशके औद्देशिकशय्यातरौ
पर्युषणा० alपोतिका नदीमुत्तरन्तो जना ववन्ति यननीभूतैरस्माभिनंदीरुत्तीर्णा' एवमेव तन्तुवायरजकादींश्चापि वदन्तिकल्पार्थ- शीघ्रं देह्यस्मद्वस्त्राणि, नग्नाः स्मो वयमिति, तथैव साधूनां सत्यपि वस्त्रे जीर्णप्रायतुच्छत्वादिहेतुनाऽचेलकत्वमेव बोधिन्याःविवक्षितम् । अत इदमपि सिद्धं-यन्निशीथादिप्रोक्तप्रायश्चित्तं पीतादिवर्णोपेतं वस्त्रं वीरजिनतीर्थसाधूनां न व्या० १ कल्पत एव । मध्यमजिनतीर्थसाधूनां तु केषाञ्चिन्मूर्छाद्यभावे बहुमूल्यविविधवर्णवस्त्रपरिभोगानुज्ञासद्भावेन
सचेलकत्वं, केषाञ्चिच्च मूर्छादिदोषसम्भवे श्वेतमानोपेतवस्त्रधारित्वेनाचेलकत्वमपि । | "उद्देसिअ"त्ति औद्देशिकं-साधुनिमित्तं कृतमशनादि, तच आद्यन्तिमजिनतीर्थे एकमुद्दिश्य कृतं सर्वेषां साध्वादीनां न कल्पते, मध्यमजिनतीर्थे तु यं साध्वादिकमुद्दिश्य कृतं तत्तस्यैव न कल्पते, अन्येषां कल्पते ।।
"सिजायर"त्ति शय्यां-गृहं दत्वा तरतीति शय्यातरो-गृहखामी, उपाश्रयदाता, तस्य अशनादिचतुर्विध आहारस्तथा वस्त्र-पात्र-कम्बल-रजोहरण-सूचि-पिपलक-नखरदन-कर्णशोधनरूपोद्वादशप्रकारः पिण्डःसर्वजिनतीर्थे सर्वसाधूनामुत्सर्गतो न कल्पते, अतिप्रसङ्ग-वसतिदौर्लभ्यादिबहुदोषसम्भवात् । अपवादतस्तु शक्रस्य देशग्रामाधिपयोश्च क्रमेणैकैकं दिनं शय्यातरो विधेयः, एवं च सति दिनत्रयादुपरि चतुर्थे दिने गृहखामिन
१ यत्र गृहे रात्री सुप्तं रात्रिक प्रतिक्रमणं च कृतं स शय्यातरो भवति, यदा चैकत्र सुप्तमन्यत्र च रात्रिकं प्रतिक्रान्तं तदा द्वावपि शय्यातरौ, यदा तु रात्रौ चतुरः प्रहरान् यावजापति, ततः प्राभातिकं प्रतिक्रमणमन्यत्र कुर्वन्ति तक यत्र गृहे स्थिताः स शण्यातरोन भवति, यत्र प्रतिक्रमणं कृतं स्यात्स एव भवति, वसति सङ्कीर्णत्वादिना | यद्यनेकेषु गृहेषु तिष्ठन्ति साधवस्तहि यत्र गुरवस्तिष्ठन्ति स शय्यातरो भवति, नान्ये गृहाधिपाः ।
॥१
॥
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 435