Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० "त्ति व्रतानि, जानतीर्थसाधूनां तु पीठिका कल्पार्थ यो धर्मः, अतः शदिनाथ बोधिन्याः व्या० १ ॥२॥ कल्पदशके ज्येष्ठ-प्रतिक्रमणमासकल्पाः "वय"त्ति व्रतानि, आद्यन्तिमजिनतीर्थसाधूनां ऋजुजडत्व-वक्रजडत्वाभ्यां तथाविधज्ञानाभावात्पञ्चमहाव्रतानि भवन्ति, मध्यमजिनतीर्थसाधूनां तु ऋजुप्राज्ञत्वेन तानि चत्वार्येव, यतस्तेषां मते स्त्रीपरिग्रह एवेति । "जिट्ट"त्ति ज्येष्ठः, सर्वेषामपि तीर्थङ्कराणां पुरुषज्येष्ठो धर्मः, अतः शतवर्षदीक्षितयाऽपि साध्व्याऽद्यदीक्षितः साधुर्वन्द्यते । अथवा 'ज्येष्ठ' इति वृद्धत्व-लघुत्वव्यवहारः, स च श्रीआदिनाथमहावीरजिनसाधूनामुपस्थापना(बृहद्दीक्षा) पर्यायेण गण्यते, अजितादिद्वाविंशतिजिनसाधूनां तु दीक्षादिनादेव, निरतिचारचारित्रत्वात्तेषां। सहप्रव्रजितानां पितापुत्र-मातासुता-नृपामात्यादीनां समकमेव षड्जीवनिकायाध्ययनयोगोद्वहनादियोग्यताप्राप्तानां स्तोकान्तरितानां वा किश्चिद्विलम्बेनापि पित्रादीनामेव प्रथममुपस्थापना विधेया, पुत्रादीनां सप्रज्ञत्वे च यदि पित्रादयोऽनुमन्यन्ते तदा पुत्रादयः प्रथममुपस्थापनीयाः, नान्यथा, यथा पित्रादीनामप्रीतिर्न स्यादिति ७। | "पडिक्कमण"त्ति प्रतिक्रमणम् , अतिचारो भवतु मा वा, परं श्रीआदिनाथ-महावीरजिनसाधुभिरवश्यमुभय सन्ध्यं यथायोगं पाक्षिकाद्यपि च प्रतिक्रमणं कर्त्तव्यमेव, द्वाविंशतिजिनसाधुभिस्तु अतिचारकारणे प्रतिक्रमणं |क्रियते, नान्यथा । कारणेऽपि देवसिकं रात्रिकं वा, न तु पाक्षिकादय इति ८। __ "मास"त्ति मासकल्पः, स चाद्यान्त्यजिनसाधुभिः शेषकालेऽवश्यं कर्तव्यः, दुर्भिक्षादिकारणेऽपि शाखापुरकोणकादिपरावर्त्तनेनाप्यवश्यं सत्यापनीयः, परं शेषकाले न मासादधिकं स्थातव्यमेकत्र, येन क्षेत्रप्रति kakakakakoXXXXXXX ॥२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 435