Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir आहारादिकं न कल्पते इति वृद्धाम्नायः । तृण-डगल-भस्म-मल्लक-पीठफलक-शय्या-संस्तारक-लेपादिवस्तूनां सोपधिकशिष्यस्य च ग्रहणं तु कल्पते, बाह्यपरिभोगत्वेन तेषां भगवताऽनुज्ञातत्वात् ३।। __ "रायपिंड"त्ति राजपिण्डः, तत्र राजा-छत्रधरःसेनापति-पुरोहित-श्रेष्ठ्य-मात्य-सार्थवाहरूपैः पञ्चभिलक्षणैर्युतो मूर्दाभिषिक्तस्तस्य अशनादिचतुर्विध आहारो वस्त्रं पात्रं कंबलं रजोहरणं चेत्यष्टविधः पिण्ड आद्यन्तिमजिनतीर्थे सर्वसाधूनां न कल्पते, निर्गच्छदागच्छत्सामन्तादिभिःखाध्यायस्य अपशकुनवुझ्या शरीरादेश्च व्याघातसम्भवात्खाद्यलोभ-लघुत्व-निन्दादिबहुदोषसम्भवाच्च, मध्यमजिनतीर्थसाधूनां तु ऋजुप्राज्ञत्वेन पूर्वोक्तदोषाभावे कल्पते, दोषसद्भावे नापि कल्पत इति ४।। "किइकम्म"त्ति कृतिकर्म-वन्दनकं, तच्च द्विधा-अभ्युत्थानं द्वादशावर्त च। द्विविधमपीदं यथायोग्यमुभयसन्ध्यं सर्वजिनतीर्थेषु सर्वैरपि साधुभिः साध्वीभिश्च यथाज्येष्ठानुक्रमेण नित्यं कर्त्तव्यं, किमुक्तं ?, लघुसाधुना ज्येष्ठो| वन्दनीयः, साध्व्या तु शतवर्षदीक्षितयाऽप्यद्यदीक्षितः साधुर्वन्दनीय एव, पुरुषज्येष्ठो हि धर्म इति हेतोः ५। १ "तणडगलछारमल्लग-सिज्जासंथारपीढलेवाई । सिजायरपिंडो सो, न होइ सेहो य सोवहिओ॥१॥" २ "असणाईण चउकं, वत्थ-पत्त-कंबल-पायपुंछणयं । निवपिंडम्मि न कप्पड, पुरिमंतिमजिणजईणं तु॥१॥" ३ एतेन श्राद्धैरपि न वन्द्या साध्वीति न श्रद्धेयम् , श्रावधर्माच्छ्मणधर्मस्य प्रधानतमत्वात् , खखधर्मेष्वेव पुरुषज्येष्ठो धर्म, अतः श्राद्धधर्माभिवतः श्राद्धः श्राद्धीषु ज्येष्ठत्वं भजते, न तु श्रमणधर्मान्वितासु श्रमणीषु, किञ्च-साधुवदेव साध्वीनामपि सुखपृच्छादिकं विधेयं श्राद्धरित्युक्तं श्राद्धविधावियलम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 435