Book Title: Panchvastukgranth
Author(s): Haribhadrasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ श्रीपञ्चव RDCROCOCALAURENDRACK लितस्यापि स्वश्रेयसे प्रव्रज्या प्रत्यपादि तथाऽत्र बालस्यापि दीक्षा प्रत्यपादि, न च वाच्यं मातापितृभ्यामदत्तस्य दीक्षादाने शैक्षनिष्फेटि-18| उपोद्घातः कानामा दोषः श्रीनिशीथचूर्णिप्रभृतिषु श्रूयते तत्कथमेवं प्रतिपादनं सूरीणां जाघटीति ?, यतः शैक्षनिष्फेटिका कदा भवति कदा च न भवतीत्येव चेच्चिन्त्यने तदा वाचाटतायाः स्वयमेवापगमो भविष्यति, शास्त्रकारा हि महात्मानः न कदाचनापि स्वश्रेयोनिबन्धनभूतां दीक्षा सर्वदा निषेधयेयुः अज्ञानमातापित्राद्यालम्बनेन, शैक्षनिष्फेटिका हि अर्वाक् षोडशभ्यो वर्षेभ्यः, षोडशवाः परतस्तु मातापितरौ दीयेतां तं सुतादिकं मा वा परं न तत्र शैक्षनिष्फेटिका, यत आहुः पञ्चकल्पभाष्यकाराः-"अपडुप्पण्णो बालो सोलसवरिसूणों अहव अनिविट्ठो। अम्मापिउअविदिण्णो न दिक्खई तत्थ वऽण्णत्थ ॥५२४॥ (नि. उ. ११-४४८ अपि) जो सो अप्पडिपुण्णो बिरडवरसूण अहव अणिविट्ठो। तं दिक्खित अविदिण्णं तेणो परओ अतेणो उ ॥ ५२७ ॥” तथाच भाष्यकाराः शैक्षनिष्फेटिकां परतः षोडशवर्ष्या न मन्वते इति सिद्धं, राजकीय-18 शासनं तु पुरुषस्य चतुर्दशवर्ष्याः स्त्रियाश्च षोडशवाः परतो नापहरणापराधं प्रणिगदति, तथा च श्रीमदाप्तवचनानां राजकीयशासनस्य च अपेक्षया अर्वाक् षोडशवर्ध्या एव मातापित्रनुज्ञापेक्षा, न परत इति सिद्धं, एवं च सति वाचाटानां वकं श्रद्धानुसारिभिः पिहितमेव बोध्यं, तैः सर्वदेव मातापित्रनुज्ञामन्तरेण दीक्षणे शिक्षनिष्फेटिकादोषस्योद्घोषणात् , एवं यथा दीक्षाग्राहकाणां सौकर्य विहितं श्रीमद्भिः तथैव दीक्षाया दायकानां ग्राहकाणां च अविधिना दीक्षादानादानादावनर्थपरम्परापि या दर्शिता सा नोपेक्षणीयैव सत्पुरुषः, एवं प्रथमवस्तुनि प्रत्रज्याविधि सप्तविंशत्यधिकया द्विशत्या गाथानां प्रपश्चय प्रतिदिन क्रियायां प्रतिलेखनादीनि दश द्वाराणि सविस्तरमभिहितानि, अत्र चैकोना-10 शीत्यधिकद्विशतीतमगाथाया वृत्तौ 'स्तोकापराधं बहुगुणं मासकल्पाविहारवत् सर्वेषां जिनमतानुसारिणां तत् प्रमाणमेवेति वृत्तिवाक्य-| लेशमवलंब्य खररटननिपुणरसनो जिनदत्तः खरबिरुद्धारको रारटीति यदुत अधुना मासकल्पेन विहारस्य कथनं करणं चोत्सूत्रमेव, -ASC-CC-SAXAMS -5 Jain Education Interio For Private & Personal Use Only RSSC ww.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 634