Book Title: Panchvastukgranth
Author(s): Haribhadrasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ श्रीपञ्चव स्तु ॥२॥ एवमुपक्रम्योत्तमश्रुतं व्याख्यातं, तथा च तस्य दृष्टिवादोद्धृतत्वमव्याहतं, तस्य तथात्वावबोधश्च श्रीमतां पूर्वधरासन्नकालभावादेव, किंच-15 | उपोद्धातः स्तवपरिज्ञा या समग्रा धृता सूरिभिः सा न स्वयंकृता, किंतु प्राभृतरूपा, यत आहुः दशाधिकैकादशशततमगाथावृत्तौ "स्तवपरिज्ञादयः प्राभृतविशेषा गृह्यन्ते" तथाच स्तवपरिज्ञायाः प्राभृतत्वं न विवादास्पदं, प्राभृतानि च पूर्वाशरूपाणीति तु 'पाहुडपाहुडपाहुडे'त्यादिज्ञातॄणां | सुप्रतीतमिति श्रीमतां सूरीणां पूर्वधरकालासन्नता निर्विवादा, एवं च श्रीमतां प्रकरणरत्नरत्नाकरः सूत्रानुपात्येवेति न सूत्रश्रद्धालूना शङ्कावकाशः कोऽपि प्रामाण्ये तदीयप्रकरणानां, यथा च श्रीमद्भिः पञ्चाशकादीनि प्रकरणानि समयपाथोधिनवनीतरूपाणि विहितानि तथैतदपि पञ्चवस्तुकाभिधानं प्रकरणं प्राणायि, यद्यपि बहूनि उपलभ्यन्ते श्रीमद्भिः सूत्रितानि प्रकरणानि आप्तशास्त्रविवरणानि च तथापि क्रमस्तेषां न ज्ञायते, तदज्ञानाच्च श्रीमद्भिः कस्य प्रकरणरत्नस्यादौ कस्य च प्रकरणरत्नस्य पश्चाद्विहिताऽस्य ग्रन्थरत्नस्य संकलनेति न निश्चीयते, तथापि ग्रन्थरत्नमिदं भवविरहाकैरेव श्रीहरिभद्रसूरिभिः संदृब्धमिति तु 'आयाणुसरणत्थं भवविरहं इच्छमाणेणति (१७१३) गाथावयवधृतभवविरहाङ्कतः स्पष्टमेव प्रतीयते, भवविरहाता च श्रीमतां श्रीमत्या अष्टकवृत्तेः पञ्चाशकवृत्त्यादेश्व स्पष्टैव, टीका तु प्रस्तुता 'कृतिधर्मतो 8 याकिनीमहत्तरासूनोराचार्यहरिभद्रस्येति प्रान्त्यस्पष्टलेखेन श्रीमद्भिरेव विहितेति प्रस्तुतग्रन्धरत्नस्य स्वोपज्ञवृत्तियुक्ततेति सुखेन निश्चीयते, एवं ग्रन्थकर्तृषु आप्तेषु निश्चितेषु विषयो विचार्यते, यतो यथा ग्रन्थविधातृणां माहात्म्येन ग्रन्थगौरवं तथैव ग्रन्थस्थविषयस्य महत्त्वेन ग्रन्थमाहात्म्यं, आद्यं श्रद्धानुसारिणां स्वभावसिद्धं, परमपरं तु तेषां तर्कानुसारिणां चेति ग्रन्थोल्लिखितो विषयो विचारणीयः, श्रीजैन शासन सासन ॥२॥ श्रद्धालूनां न नूवमेतत् निश्चेयं यदुत जैनशासनं समग्रं सच्चारित्रद्वारैव मुक्तिप्राप्तिख्यापकं, यद्यपि देशविरतिरूपं चारित्रं मोक्षसुखप्राप्तिहेतु|स्तथापि तस्य तथात्वं सर्वविरतिचारित्रावाप्तिद्वारा, न तु जातुचिदपि स्वतबतया, किंच-देशविरतेरपि सद्भावस्तेषामेव ये सर्वविरतिमभिला-1 Jain Education Intern a l For Private & Personal Use Only KI -wwwjainelibrary.orge

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 634