Book Title: Panchastikay Samaysar
Author(s): Kundkundacharya, Pannalal Bakliwal
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 158
________________ रायचन्द्रजैनशास्त्रमालायाम् यत्राश्रितास्तद्रव्यम् । तच्चेदन्यद् गुणेभ्यः। पुनरपि गुणाः क्वचिदाश्रिताः। यत्राश्रितास्तद्रव्यं । तदपि अन्यच्चेद्गुगेभ्यः । पुनरपि गुणाः क्वचिदाश्रिताः। यत्राश्रिताः तद्रव्यम् । तदप्यन्यदेव गुणेभ्यः। एवं द्रव्यस्य गुणेभ्यो भेदे भवति द्रव्यानन्त्यम् । द्रव्यं हि गुणानां समुदायः । गुणाश्चेदन्ये समुदायात्, कोनाम समुदायः । एवं गुणानां द्रव्यादू भेदे भवति द्रव्याभाव इति ॥ [४५ ] द्रव्यगुणानां स्वोचितानन्यवोक्तिरियम् । अविभक्तप्रदेशत्वलक्षणं द्रव्यगुणानामनन्यत्वमभ्युपैगम्यते । विभक्तप्रदेशत्वलक्षणं त्वन्यत्वमनन्यत्वं च नाभ्युपगम्यते । तथा हि-यथैकस्य परमाणोरेकेनात्मप्रेदेशेन सह विभक्तत्वादनन्यत्वं । तथैकस्य परमाणोस्तद्वर्तिनां स्पर्शरसगन्धवर्णादिगुणानां चाविभक्तप्रदेशत्वादनन्यत्वं । यथा त्वत्यन्तविप्रकृष्टयोः सह्यविन्ध्ययोरत्यन्तसन्निकृष्टयोश्च मिश्रितयोस्तोयपयसोर्विभक्तप्रदेशत्वलक्षणमन्यत्वमनन्यत्वं च । न तथा द्रव्यगुणानां विभक्तप्रदेशत्वाभावादन्यत्वमनन्यत्वं चेति ॥ [४६ ] व्यपदेशादीनामेकान्तेन द्रव्यगुणान्यत्वनिबन्धनत्वमत्र प्रत्याख्यातम् । यथा देवदत्तस्य गौरित्यन्यत्वे षष्ठीव्यपदेशः, तथा वृक्षस्य शाखा द्रव्यस्य गुणा इत्यनन्यत्वेऽपि । यथा देवदत्तः फलमङ्कुशेन धनदत्ताय वृक्षाद्वाटिकायामवचिनोतीत्यन्यत्वे कारकव्यपदेशः । तथा मृत्तिका घटभावं स्वयं स्वेन स्वस्मै स्वस्मात् स्वस्मिन् करोतीत्याऽऽत्माऽऽत्मानमात्मनाऽऽत्मने आत्मन आत्मनि जानातीत्यनन्यस्वेऽपि । यथा प्रीशोर्देवदत्तस्य प्रांशुगौरित्यन्यत्वे संस्थानं । तथा प्रांशोवृक्षस्य 'श्रांशुः शाखाभरो, मूर्तद्रव्यस्य मूर्ता गुणा इत्यनन्यत्वेऽपि । यथैकस्य देवदत्तस्य दश गाव इत्यन्यत्वे संख्या । तथैकस्य वृक्षस्य दश शाखाः, एकस्य द्रव्यस्यानन्ता गुणा इत्यनन्यत्वेऽपि । यथा 'गोष्ठे गाव इत्यन्यत्वे विषयः । तथा घृक्षे शाखाः, द्रव्ये गुणा इत्यनन्यत्वेऽपि । ततो न व्यपदेशादयो द्रव्यगुणानां वस्तुत्वेन भेदं साधयन्तीति॥ [४७] वस्तुत्वभेदाभेदोदाहरणमेतत्। यथा धनं भिन्नास्तित्वनिवृत्तम् भिन्नास्तित्वनिवृत्तस्य, भिन्नसंस्थानं भिन्नसंस्थानस्य, भिन्नसंख्यं भिन्नसंख्यस्य, भिन्नविषयलब्धवृत्तिकं भिन्नविषयलब्धवृत्तिकस्य, पुरुषस्य धनीति व्यपदेशं पृथक्त्वप्रकारेण कुरुते । यथा च ज्ञानमभिन्नास्तित्वनिर्वृत्तमभिन्नास्तित्वनिवृत्तस्याभिन्नसंस्थानं अभिन्नसंस्थानस्याभिन्नसंख्यमभिन्नसंख्यस्याभिन्नविषयलब्धवृत्तिकमभिन्नविषयलब्धवृत्तिकस्य पुरुषस्य ज्ञानीति व्यपदेशमेकत्वप्रकारेण कुरुते । तथान्यत्राऽपि । यत्र द्रव्यस्य भेदेन व्यपदेशोऽस्ति तत्र पृथक्त्वं, यत्राभेदेन तत्रैकत्वमिति ॥ [४८ ] द्रव्यगुणानामर्थान्तरभूतत्वे दोषोऽयम् । ज्ञानी ज्ञानाद्यद्यर्थान्तरभूतस्तदा स्वकरणांशमन्तरेण परशुरहितदेवदत्तवत्करणव्यापारासमर्थत्वादचेतयमानोऽचेतन एव स्यात् । ज्ञानञ्च यदि ज्ञानिनोऽर्थान्तरभूतं तदा तत्कंत्रशमन्तरेण देवदत्तरहितपरशुवत्तत्कर्तृत्वव्यापारासमर्थत्वादचेतयमानमचेतन १ यस्मिन्वस्तुनि आश्रितास्तद्रव्यं स्यात्. २ गुणेभ्यो द्रव्यस्य भेदे सत्येकद्रव्यस्याप्यानन्त्यं प्राप्नोति । अथवा द्रव्यात्सकाशायद्यन्ये भिन्ना गुणा भवन्ति तदा द्रव्यस्याभावं प्रकुर्वन्ति. ३ “अङ्गीकारोऽभ्युपगमः" इति हैमः। तेन अङ्गीक्रियते इत्यर्थः. ४ खकीयप्रदेशेन. ५ अत्यन्तभिन्नयोः. ६ मिलितयोः. ७ पुष्टस्य. ८ पुष्टः. ९ पुष्टस्य वा महतः. १० महान्. ११ गावः तिष्ठन्त्यत्रेति गोष्टं गवांस्थानं तस्मिन्. १२ संज्ञाम्. १३ ज्ञानं विना. १४ यथाऽनेर्गुणिनः सकाशादत्यन्तभिन्नः सन्नुष्णत्वलक्षणगुणोऽग्नेर्दहनक्रिया प्रत्ययमसमर्थः सन्निश्चयेन शीतलो भवति । तथा जीवात् गुणिनः सकाशादत्यन्तभिन्नो ज्ञानगुणः पदार्थपरिच्छित्तिं प्रत्ययमसमर्थः सन्नियमेन जडो भवति । यथोष्णगुणादत्यन्तभिन्नः सन् वह्निर्गुणी दहनक्रियां प्रत्यसमर्थः सन्निश्चयेन शीतलो भवति । तथा ज्ञानगुणादत्यन्तभिन्नः सन् जीवो गुणी पदार्थपरिच्छितिं प्रत्यसमर्थः सन्निश्चयेन जडोभवति। अथ मतं । यथा भिन्नदात्रोपकरणेन देवदत्तो लावको भवति तथा भिन्नज्ञानेन ज्ञानी भवति इति नैव वक्तव्यं ।

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184